Monthly Archives: April 2020

गृहे स्वस्थाः महाजनाः (भागः १२८) – 25-04-2020

EPISODE – 128

नूतना समस्या –

“गृहे स्वस्थाः महाजनाः”

ഒന്നാംസ്ഥാനം

“വിപദിധൈര്യമാർജിത്യ
രാജ്യസംരക്ഷണായ ഹി
ക്ഷമയാപൗരധർമൈശ്ച
ഗൃഹേ സ്വസ്ഥാ:മഹാജനാ:”

Narayanan N

“അഭിനന്ദനങ്ങള്‍”

 

PRASNOTHARAM (भागः १२८) – 25-04-2020

EPISODE- 128

 

प्रश्नोत्तरम्।

 

 

 

 

  1. अधोदत्तेष्वेकं महाकाव्यं चित्वा लिखत।(क) रामायणम्  (ख) महाभारतम्  (ग) कुमारसम्भवम्
  2. कुमारसम्भवस्य कर्ता कः ? (क) दण्डी  (ख) कालिदासः  (ग) भारविः
  3. कुमारसम्भवे ——-सर्गाः सन्ति । (क) १७  (ख) १८  (ग)  १९
  4. कुमारसम्भवस्य ——–सर्गे  रतिविलापः वर्णयति।(क) चतुर्थे  (ख) पञ्चमे  (ग) षष्ठे
  5. ” शरीरमाद्यं खलु धर्म साधनम् ”  इति कस्य वचनम् ? (क) पार्वत्याः  (ख) कामदेवस्य  (ग) ब्रह्मचारिणः
  6. ——–इति श्लोकेन कुमारसम्भवस्य समारम्भः भवति। (क) वागर्थाविव   (ख) अस्त्युत्तरस्यां दिशि (ग) कश्चित्कान्ता
  7. पार्वत्याः पिता कः ? (क) ब्रह्मा  (ख) शिवः  (ग) हिमवान्
  8. अस्त्युत्तरस्याम्  = ——— + ———- । (क) अस्ति + उत्तरस्याम्  (ख) अस्त्यु + उत्तरस्याम्  (ग) अस्त + उत्तरस्याम् 
  9. कुमारसम्भवमहाकाव्ये अङ्गी रसः कः ? (क) करुणा  (ख) वीरः  (ग) शृङ्गारः
  10. अत्र ” कुमार ” नाम्ना प्रसिद्धः  कः ? (क) शिवः  (ख) षण्मुखः (ग) गणेशः

ഈയാഴ്ചയിലെ വിജയി

SREESHA VINOD

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍:

  • SREESHA VINOD
  • Adidev C S
  • Ashiq Bijoy
  • Dawn Jose
  • Lijina K M

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

कोविड्-१९, कृषकाणां कृते १९ निखर्व डोलर् मितेन आर्थिकनिचयेन सह डोलाल्ड् ट्रम्प्।

वाषिङ्टण्- कोविड् बाधानन्तरम् अपचयमाप्तस्य कार्षिकरंगस्य सहयोगार्थम् अमेरिका अध्यक्षः डोनाल्ड् ट्रम्प् वर्यः १९ निखर्वं आर्थिकनिचयं प्राख्यापयत्। शुक्रवासरे सम्पन्ने वार्ताहरसम्मेलने एव ट्रम्पस्य प्रख्यापनम्।

महामारिकारणात् दुरितमनुभूयमानानां कृषकाणां कृते साहाय्यं प्रत्यक्षतया दातुमेवायमुद्यमः।

विद्यालयानां भोजनालयानां च पिधानेन कृषकाः महान्तं नष्टमन्वभवत्। कार्षिकोत्पन्नानां चोदना न्यूनीकृता। अतः उत्पन्नानां नाशः सम्भूतः। कृषकेभ्यः उत्पन्नानि सर्वकारः क्रीणीय सामाजिक भक्ष्यशृङ्खलाद्वारा समान्यजेभ्यः वितरिष्यति।

कोविड्-१९ रोगः न्यूनतया व्यापृतेषु पञ्चसु मण्डलेषु साधारणजीवनं भागिकतया अनुमिनोति।

तिरुवनन्तपुरम्- कोविड्-१९ रोगस्य व्यापनं न्यूनतया अनुभूतानि आलप्पुषा, तिपुवनन्तपुरम्, पालक्काट्, तृशूर्, वयनाट् मण्डलानि तृतीयमेखलारूपेण परिगणय्य तत्र साधारणजीवनं भागिकतया पुनःस्थापनमेव सर्वकारस्य लक्ष्यमिति मुख्यमन्त्री पिणरायि विजयन् वर्यः अवदत्।

अधुना आलप्पुषजिल्लायां त्रयः, तिरुवनन्तपुरे द्वौ, पालक्काट् त्रयः तृशूर् एकः वयनाट् च एकः इति क्रमेण जनाः कोविड् बाधिताः सन्ति। केन्द्रसर्वकारेण दीप्तबिन्दुतया आङ्कितं तिरुवनन्तपुरं मण्डलमपि अस्मिन्नन्तर्भवति। तिरुवनन्तपुरं मण्डलं तृतीयगणे परिगणयितुम् आवेदनं प्रेषितमिति मुख्यमन्त्री अवदत्।

यद्यपि साधारणजीवितम् अनुमिनोति तथापि नियन्त्रणानि सर्वाणि एतेषां मण्जलानामपि बाधकानि भवेयुः। चलचित्रशालाः आराधनालयाश्च पिहिताः एव स्युः।

कविता – विजयन् वि पट्टाम्बी।

यतामहे वयं सदा।

१. चीनादेशे समुत्पन्ना

चीयमाना क्षणे क्षणे।

व्याप्नोति सर्वराष्ट्रेषु

कोविड् हा भयकारिणी।।

२.जनान् सहस्रशांश्चाद्य

हन्ति संक्रमणात्मिका।

जनास्तत्राः समाविष्टाः

यथादिष्टाः गृहोदरे।।

३. पिहिताश्च जनास्सर्वे

सर्वकारेण तत्क्षणम्।

गृहीता मञ्चनिक्षिप्ताः

क्षीणाश्च पन्नगा यथा।।

४. स्वदेशिनो गृहस्थास्तु

परिवारसमन्विताः।

गृहान्तरे∫वसन् स्वस्थाः

नीडेषु पक्षिणो यथा।।

५. केचिन्महानसं प्राप्य

भक्ष्याणि हा यथारुचि।

निर्माय च यथाकालं

पक्वानि पर्यवेषयन्।।

६. केचन स्वस्ववैदग्द्यं

गानेनाभिनयेन च।

प्रदर्श्य मोदमापन्नाः

वाट्साप् द्वारेण सत्वरम्।

७. आबालं हा जनास्सर्वे

मोबैल् वीक्ष्य मुदान्विताः।

जाग्रताञ्च समाश्रित्य

भुङ्क्त्वा सुप्त्वा च रेमिरे।।

८. सर्वकारास्तु साकूतं

जनानां सेवने रताः।

भक्ष्यवस्तूनि सञ्चित्य

ददन्तो धन्यतां गताः।।

९. बहुदिनान्यतीतानि

जनास्तु बहवो  हताः।

बहुसहस्रमितो हन्त

वैद्यशालासु संस्थिताः।।

१०.भिषग्वरस्त्वहोरात्र-

मनुवैद्यसमावृतः।

शुश्रूषायां  निमग्नः सन्

देवतासममैक्षत।।

११. कोविड् व्याधिना व्याप्तं

भुवनं सर्वमिदं क्षणात्।

शास्त्रसम्पत्समायुक्तं

भारतं मुक्तिमाप्नुयात्।।

१२. भयं त्यक्त्वा जयं प्राप्तुं

यतामहे वयं सदा।

स्वास्थ्यलाभाय सर्वेषां

प्रार्थये च  निरन्तरम्।।

 

भारते पूर्णपिधानं मेय् ३ दिनाङ्कपर्यन्तं आयामितम्। कोविड् १९ प्रतिरोधे भारतस्य विजयः।

नवदिल्ली > कोविड् १९ रोगस्य पूर्णनिर्माजनं उद्दिश्य सम्पूर्णं पिधानं मेय् ३ दिनाङ्कपर्यन्तम् आयामितमिति प्रधानमन्त्रिणा नरेन्द्रमोदिना प्रतिपादितम्। गतदिने राज्यमुख्यमन्त्रिभिः साकम् अधिजालम् आयोजिते संवेशने स्वीकृतं निर्णयमनुसृत्यैव प्रधानमन्त्रिणः प्रख्यापनम्। सम्पूर्णपिधानस्य प्रथमसोपानम् अद्य अवसीयमानम् असीत्। तदनुसारं राष्ट्रम् अभिसम्बोधयन् भाषमाणः आसीत् प्रधानमन्त्री।

     कोरोणाविषाणुप्रतिरोधे युद्धमुखे इव स्वकर्तव्यम् अनुतिष्ठवतः सर्वान् प्रधानमन्त्री अभ्यवादयत्। किन्तु आगामिसप्ताहः अतीवनिर्णायकः इति प्रधानमन्त्रिणा सूचितम्।

     तीव्रबाधितमण्डलेषु कर्कशं नियन्त्रणमावश्यकम् । कतिपयेषु अवश्यसेवनमण्डलेषु एप्रिल् २० दिनाङ्कात् केचन आश्वासप्रक्रमाः भविष्यन्तीति सूचना अस्ति। तदर्थं मानदण्डनिर्देशः श्वः सूचयिष्यति। कोविड् प्रतिरोधाय प्रधानमन्त्री सप्तांशु निर्देशान् अदात्।

कर्णिकारास्तु पुष्पिताः (भागः १२७) – 18-04-2020

EPISODE – 127

नूतना समस्या –

“कर्णिकारास्तु पुष्पिताः”

ഒന്നാംസ്ഥാനം

“ഔദ്യോഗികംമഹത്സ്ഥാന-
മംഗീകൃത്യ ദ്രുമേഷു ഹാ!
വിഖ്യാതൗന്നത്യമേത്യേതേ
കർണികാരാസ്തു പുഷ്പിതാ:”

Narayanan N

“അഭിനന്ദനങ്ങള്‍”

PRASNOTHARAM (भागः १२७) – 18-04-2020

EPISODE – 127

 

प्रश्नोत्तरम्।

 

 

 

 

  1. पञ्चमहाकाव्येष्वेकं भवति ———। (क) रघुवंशम्  (ख) कादम्बरी   (ग) नारायणीयम्
  2. रघुवंशस्य कर्ता कः ? (क) भारविः  (ख) माघः   (ग) कालिदासः  
  3. रघुवंशे कति सर्गाः  सन्ति ? (क) १९  (ख) २०  (ग) २१
  4. रघुः कस्य पुत्रः  भवति ? (क) अजस्य  (ख) दिलीपस्य  (ग) अग्निवर्णस्य
  5. केन श्लोेकेन रघुवंशः समारम्भः भवति ? (क) वागर्थाविव  (ख) अस्त्युत्तरस्याम्  (ग) कश्चित्कान्ता
  6. श्रीरामस्य अयोध्याप्रत्यागमनं रघुवंशे कस्मिन् सर्गे वर्णयति ? (क) १३  (ख) १४  (ग) १५
  7.  ———– अष्टमे सर्गे वर्णितमस्ति । (क) रामस्य राज्याभिषेकः (ख) कुशस्य राज्याभिषेकः (ग) अजविलापः
  8. दिलीपस्य नन्दिनी परिपालनं ——- सर्गे वर्णयति। (क) द्वितीये (ख) तृतीये  (ग) चतुर्थे
  9. वागर्थाविव = ———–+————। (क) वागर्था + इव    (ख) वागर्थौ + इव   (ग) वागर्थे + इव  
  10. वन्दे पार्वतीपरमेश्वरौ । अस्मिन् वाक्ये कर्ता कः? (क) सः   (ख) त्वम् (ग) अहम्

ഈയാഴ്ചയിലെ വിജയി

LIJINA K M

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍:

  • Lijina K M

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

पूर्णपिधानकाले कृषकाणां समाश्वासाय कृषि उडान् पद्धतिः।

नदिल्ली- पिधानकाले कृषकाणां समाश्वासाय कृषि उडान् पद्धतिद्वारा विमानसेवा आयोज्यते। भारते उत्पादितानि फलानि शाकानि च एयर् इन्ड्या विमानद्वारा यूरोप् राष्ट्रं प्रापयिष्यति। कृषकाणां साहाय्यार्थमेव इयं व्यवस्था एयर् इन्ड्या संस्थया स्वीकृता। लण्टन्, शर्मणीराष्ट्रस्थं फ्राङ्क्फर्ट्  इत्यादीन् देशान् प्रति एव फलैः शाकादिभिश्च साकं विमानानी उड्डयन्ति।

     एप्रिल् १४ तिथौ लण्डन् प्रति १५ तिथौ फ्राङ्कफर्ट् प्रति च विमानसेवा। प्रत्यागमनसमये वैद्यकीयवस्तूनि ततः आनीयन्ते। राष्ट्रे कार्षिकोत्पन्नानि विदेशराष्ट्राणि नेतुं केन्द्रसर्वकारैः आविष्कृता पद्धतिः भवति उडान्।

अध्यापका‌ छात्रेषु आत्मविश्वासं प्रसारयन्तु- शिक्षामन्त्री।

तिरुवनन्तपुरम्- राज्ये सार्वजनीनविद्यालयस्थाः सर्वे अध्यापकाः छात्रान् दूरवाणीद्वारा आहूय तेषु आत्मविश्वासं विवर्धेरन् इति शिक्षामन्त्री प्रोफ. सी. रवीन्द्रनाथवर्यः निरदिशत्।

यदा नियन्त्रणानि अवसीयन्ते तदा एस्.एस्.एल्.सी., प्लस्-टु परीक्षाः प्रचलिष्यन्ति। कोविड् प्रतिरोधयज्ञे वयं यदा विजयिनो भवामः तदैव परीक्षा प्रारभ्स्यते। जूण् प्रथमे दिनाङ्के विद्यालयेषु अध्ययनप्रारम्भः भविष्यति इति प्रतीक्षा अस्ति। यदि न शक्यते तर्हि पाठ्यपद्धत्यनुसारं सर्वान् पाठभागान् अध्यापयितुं सुविधा केरलेषु वर्तते। अष्टमकक्ष्यापर्यन्तं पाठपुस्तकानि वितरणकेन्द्रेषु प्रापितानि। शिष्टानि यानसौविध्यमनुसृत्य अचिरेणैव प्रापयिष्यति।

परीक्षाः अधिजालिकरीत्या प्रचालयितुं व्यवस्था अस्ति। साम्प्रदायिकरीत्या परीक्षा नियन्त्रणात्यये एव स्यात्।

प्राथमिकस्तरीयाः छात्राः समग्रा इति अधिजालिकव्यवस्थामुपयुज्य क्रीडा पठनं च समारभन्ताम् इत्यपि मन्त्री अवदत्।