एस्.एस्.एल्.सी.,प्लस्-२ परीक्षाः मेय् तृतीये वारे भविता।

तिरुवनन्तपुरम्- अस्मिन् वर्षे एस्.एस्.एल्.सी. परीक्षायां शिष्टविषयाणां परीक्षा मेय् तृतीयवारे सम्पत्स्यते। शिक्षाविभागः अस्याः साध्यतां निरीक्षते। कोविड्रोगव्यापनस्य तीव्रता न्यूना जाता, सप्तसु मण्डलेषु पिधानव्यवस्थायाम् ईषद् आश्वासश्च घोषितः। अस्मिन् सन्दर्भे एव परीक्षाचालनस्य साध्यतां निरीक्षते।

अस्मिन्नन्तरे केवलं केरलीय साहचर्यस्य आनुकूल्येन परीक्षाचालनं न शक्यम्। लक्षद्वीपे मध्यपूर्वीय अरब् राष्ट्रेषु च केरलीयविद्यालयाः सन्ति। तेषां साहचर्यं च अवलोक्य अन्तिमनिर्णयं भविता।

एस्.एस्.एल्.सी. प्लस्-टु परीक्षाः शीघ्रं समायोज्य़ छात्राणाम् उन्नतशिक्षायै अवसरसमायोजनमेव सर्वकारस्य कर्तव्यम्।

Leave a Reply

Your email address will not be published. Required fields are marked *