Monthly Archives: June 2019

जलशोषः- चेन्नै नगरे विद्यालयान् पिधातुं निर्णयः।

चेन्नै – चेन्नै ताम्बरं स्थले निजीयविद्यालयाः किञ्चित्कालं पिहिताः भवेयुः। जलक्षामस्य रूक्षतां परिगणय्य मधुरा काञ्चीपुरम् इत्यादिषु स्थलेषु  विद्यालयानां प्रवर्तनसमयः मध्याह्नं यावत् परिमिताः आसन्ः पानीयजलस्य दौर्लभ्यम् अतिक्रान्तुं मेखलानुसारं जलवितरणं कार्यक्षमं कर्तुं च सर्वकारः निरणयत्। निजीय-जलसम्भारवाहनानि अधिकशुल्कं स्वीकुर्वन्तीति आवेदनमभिलक्ष्य परिहारार्थं पृथक् समितिं न्ययोजयत्। जलशोषेण दूयमाने तमिल् नाटु राज्ये एकसप्ताहाभ्यन्तरे वृष्टिः भविता इति पर्यावरणनिरीक्षणकेन्द्रं वदति।

     उत्तरतमिल्नाटु राज्ये उष्णवातस्यापि साध्यतां प्रवक्ति।  जनैः जाग्रद्भिः भाव्यमिति सर्वकाराः असूचयन्। आगामिनि दिनद्वये तमिल्नाटु राज्ये तापमानं षट् डिग्रि सेल्ष्यस् अधिकं उन्नतौ भविष्यति इति निरीक्षणमप्यस्ति।

संस्कृतशिक्षणपाठाः।

 

രാഷ്ട്രീയ സംസ്കൃത സന്‍സ്ഥാന്‍ തയ്യാറാക്കിയ സംസ്കൃതസംഭാഷണ പാഠങ്ങള്‍ ആഴ്ചയില്‍ ഒന്നുവീതം ഈ പേജില്‍ പ്രസിദ്ധീകരിക്കുന്നു. സംസ്കൃതാധ്യാപകരും വിദ്യാര്‍ത്ഥികളും ഇത് പരമാവധി പ്രയോജനപ്പെടുത്തുമല്ലോ…

EPISODE – 15 (16-11-2019)

 

കൂടുതല്‍ പാഠങ്ങള്‍ക്കായി ഇവിടെ ക്ലിക് ചെയ്യുക…

कथञ्च लभते सुखम् – 22-06-2019

 

नूतना समस्या –

“कथञ्च लभते सुखम्”

 

ഒന്നാംസ്ഥാനം

സാഹായ്യം കരണീയം ഹി
സന്തോഷേണ പരസ്പരം
ആശ്രിതത്വം വിനാ ഭൂമൗ
കഥം ച ലഭതേ സുഖം?

Bhaskaran N K

“അഭിനന്ദനങ്ങൾ”

PRASNOTHARAM – 22-06-2019

 

प्रश्नोत्तरम्।

 

 

 

 

  1. वयं निर्धनेभ्यः वस्त्राणि …………। (क) ददाति  (ख)दद्मः  (ग)ददन्ति
  2. अहं नदीम् ……………। (क)अतरत् (ख) तरति  (ग) अतरम्
  3. पतितः शिशुः निश्चयेन ……………। (क) रुदिष्यति (ख) रोदिष्यति (ग) रोत्स्यति
  4. रामायणं कस्मिन् विभागे अन्तर्भवति (क) वेदः (ख) पुराणः (ग) इतिहासः
  5. “यदिहास्ति तदन्यत्र यन्नेहास्ति न तत् क्वचित्” – कस्य वचनमिदम् (क)भासस्य (ख)व्यासस्य (ग) वात्मीकेः
  6. बुद्धचरितं केन विरचितम् (क) अश्वघोषः (ख) अरविन्दघोषः (ग) बाणः
  7. कालिदासस्य प्रथमः नाटकः कः (क) अभिज्ञानशाकुन्तलम् (ख) मालविकाग्निमित्रम् (ग) मृच्छकटिकम्
  8. ‘जानकी जाने’ इति चलनचित्रसंस्कृतगानस्य रचयिता कः (क) ओ.एन्.वि (ख) पि. भास्करः (ग) यूसफलि केच्चेरि
  9. सुधर्मा नामिका संस्कृतदिनपत्रिका कस्मिन् वर्षे प्रारब्धा (क) १९७० (ख) १९५२ (ग) १९९९
  10. ऋते शब्दयोगे का विभक्तिः (क) पञ्चमी (ख) तृतीया (ग) चतुर्थी

ശരിയുത്തരങ്ങള്‍

  1. () दद्मः
  2.  () अतरम्
  3.  () रोदिष्यति
  4.  () इतिहासः
  5.  () व्यासस्य
  6.  () अश्वघोषः
  7.  () मालविकाग्निमित्रम्
  8.  () यूसफलि केच्चेरि
  9.  () १९७०
  10. () पञ्चमी

ഈയാഴ്ചയിലെ വിജയി

BINDU P. (9 ശരിയുത്തരങ്ങള്‍)

“അഭിനന്ദനങ്ങള്‍”

कलाकेरलस्य महान् नष्टः, वाद्यचक्रवर्तेः आदराञ्जलयः।

अन्नमनट परमेश्वरमारार्

मध्यकेरले कलाग्रामेषु प्रमुखस्थाने अस्ति अन्नमनटा। तत्र पटिञ्जारे मारात् भवने पारुक्कुट्टिमारास्यार् तोट्टुपुरत् रामन् नायर् दम्पत्योः पुत्रत्वेन १९५२ ऋषभमासे विशाखं नक्षत्रे परमेश्वरमारार् भूजातो अभवत्। अन्नमनट वरिष्ठपरमेश्वरनमारारं कुषूर् नारायणमारार् प्रभृतीनां तिमिलवादकानां चालक्कुटि नम्पीशन् कोलमङ्गलत् नारायणन् नायर् इति मद्दळवादकयोः प्रमाणस्थे पञ्चवाद्ये एव तस्य प्रथमपरिश्रमः आसीत्।
१९७१ वर्षे केरलकलामण्डले अध्यापकः अभवत्। प्रसिद्धाना सहवर्तित्वं तं प्रसिद्धं वाद्यकलाकारमकारयत्ष

केरलस्थेषु प्रसिद्धेषु मन्दिरेषु तस्य पञ्चवाद्यवादनमभवत्। विदेशेष्वपि स पञ्चवाद्यं अवातरत्।

राज्ये आगामिनि अध्ययनवर्षे मुक्तविश्वविद्यालयः प्रवर्तनमारभते-उन्नतशिक्षामन्त्री।

तिरुवनन्तपुरम्- केरलराज्ये आगामिनः अध्ययनवर्षादारभ्यः मुक्तविश्वमिद्यालयः प्रवर्तनसज्जो भविता इति अन्नतशिक्षाविभागमन्त्री के.टी. जलील् वर्यः अवदत्। राज्यस्थेषु विश्वविद्यालयेषु विदूरविद्याभ्यासार्थं पञ्जीकरणम् अस्मिन्वर्षमात्रमिति परिमितं भविष्यति इत्यपि सोवदत्। वृत्यधिष्ठित-वृत्तिनैपुणयविकासपाठ्यपद्धतेः एव मुक्तविश्वविद्यालये प्राधान्येन भविष्यतीत्यपि मन्त्री अवदत्।

     मुक्तविश्वविद्यालयमधिकृत्य पठनं कृतवान् प्रोफ. जे प्रभाष्वर्यः  सूचनीपत्रं सर्वकाराय अदात्। सूचनापत्रानुसारं विश्वविद्यालयस्थापनार्थं प्रवर्तनानि अचिरादेव आरभ्यतेणमारद्भ्यते।

     अधुना केरल,कालिक्कट्, कण्णुर् विश्ववीद्यालयेषु 93155 छात्राः वीदूरविद्याभ्यासार्थं, महात्मागान्धी विश्वविद्यालये 25488 छात्राः निजीयरूपेण च नाम पञ्जीकृताः सन्ति। आगामिनि अध्ययनवर्षे एतादृशान् मुक्तविश्वविद्यालयस्य भागं कारयिष्यति।

केरला एक्स्प्रस् इति रेल्याने अत्युष्णेन चत्वारो मृतः। भौतिकदेहानि अद्य स्वदेशं प्रापयिष्यति।

दिल्ली- केरल एक्स्प्रस् इति रेल्याने ह्यः चत्वारो मृतः। अत्युष्णेनैव एषा घटना सञ्जातेति सङ्घेष्वेकः न्यवेदयत्। अत्युष्णम् असहमानाः अस्वस्थाः जाताः, एतदेव मरणकारणमिति संघाङ्गः कोषिक्कोट् देशीया रुग्मिणी अवदत्। आग्रातः प्रस्थानात् परम् अर्धहोराभ्यन्तरे ते अस्वस्थाः जाताः।

वरिष्ठाः अत्यधिकम् अस्वस्थतां प्राकटयन्। अतःरेल्वे अधिकारिणं न्यवेदयन्। ततः झान्सीं प्राप्य अस्वस्थान् चिकित्सालयं प्रावेशयत्।

मृतानां चतुर्णां भौतिकदेहानि अद्य तेषां देशं प्रापयिष्यति। ऊट्टी देशीययोः द्वयोः देहे विमानद्वारा कोयम्पत्तूर् प्रापयिष्यति च।

ज्ञानपीठजेता गिरीष् कर्णाट् वर्यः दिवंगतः।

बंगलूरु- विख्यातः साहित्यकारः ज्ञानपीठजेता च गिरीष् कर्णाट् वर्यः दिवङ्गतः। स ८१ वयस्कः आसीत्। बङ्गलूरुस्थे स्वकीये गृहे सोमवासरे प्रातः आसीदन्त्यम्। वार्धक्यसहजेन आमयेन बहुकालं चिकित्सायामासीत्।

     १९८८-९३ कालघट्टे केन्द्रीय साहित्य अक्कादम्याः अध्यक्षः आसीत्। पद्मश्री पद्मभूषण् पुरस्काराभ्यामपि स बहुमानितः। कर्णाटक-राज्य-नाटक अकादम्याः अध्यक्षपदवीमपि अनेन अलङ्कृतः। पुरोगमन-राजनैतिकता तस्य रचनायां प्रतिफलितः आसीत्।

     १९३८ मेय १९ तमे दिनाङ्के महाराष्ट्रराज्ये मथेरान् स्थले स भूजातः। आङ्गल-मराठी भाषयोः शिक्षां प्राप्तोपि स कन्नटभाषायां मुख्यतया साहित्यरचनामकरोत्।

     संस्कार इति कन्नटचलचित्रार्थं पटकथा अनेन रचिता। तस्मिन् चित्रे नायकश्चासीदयम्। वंशवृक्ष इति चलचित्रस्य निदेशकोप्यासीदयम्।

हिताहारो हि स्वस्तिमान् – 15-06-2019

 

नूतना समस्या –

“हिताहारो हि स्वस्तिमान्”

Last date: 15-06-2019

PRASNOTHARAM – 15-06-2019

 

प्रश्नोत्तरम्।

 

 

 

  1. अहं संस्कृतं ——-। (क) पठति  (ख) पठसि  (ग) पठामि
  2. सः कुत्र ——। (क) गच्छति (ख) गच्छसि (ग) गच्छामि
  3. ——–नृत्यति। (क) ते (ख) सा (ग) तौ
  4. गच्छसि – गच्छथः – ——–। (क) गच्छामः  (ख) गच्छन्ति  (ग) गच्छथ
  5. ——, ते  , ताः । (क) सा (ख) ​​एषा​​​  (ग) एतत्
  6.  ——, कुरुथः  , कुरुथ। (क) करोषि  (ख) करोति  (ग) करोमि
  7. सोमदेवः ———-। (क) प्रतिमानाटकम्  (ख) कथासरित्सागरम् (ग) कादम्बरी
  8. प्रतिमानाटकम् ———–। (क) पञ्चतन्त्रात्   (ख) रामायणात्  (ग) महाभारतात्
  9. ” यावज्जीवेत् सुखं जीवेत्  ” (क) चार्वाकः (ख) वेदान्तः  (ग) सांख्यः
  10. नारायणीयम् —————–। (क) महाकाव्यम् (ख) नीतिकाव्यम् (ग) स्तोत्रकाव्यम्

ശരിയുത്തരങ്ങള്‍

  1. (ग) पठामि
  2. (क) गच्छति
  3. (ख) सा
  4. (ग) गच्छथ
  5. (क) सा
  6. (क) करोषि
  7. (ख) कथासरित्सागरम्
  8. (ख) रामायणात्
  9. (क) चार्वाकः
  10. (ग) स्तोत्रकाव्यम्

ഈയാഴ്ചയിലെ വിജയി

Anaswara Mohan (9 ശരിയുത്തരങ്ങള്‍)

“അഭിനന്ദനങ്ങള്‍”