जलशोषः- चेन्नै नगरे विद्यालयान् पिधातुं निर्णयः।

चेन्नै – चेन्नै ताम्बरं स्थले निजीयविद्यालयाः किञ्चित्कालं पिहिताः भवेयुः। जलक्षामस्य रूक्षतां परिगणय्य मधुरा काञ्चीपुरम् इत्यादिषु स्थलेषु  विद्यालयानां प्रवर्तनसमयः मध्याह्नं यावत् परिमिताः आसन्ः पानीयजलस्य दौर्लभ्यम् अतिक्रान्तुं मेखलानुसारं जलवितरणं कार्यक्षमं कर्तुं च सर्वकारः निरणयत्। निजीय-जलसम्भारवाहनानि अधिकशुल्कं स्वीकुर्वन्तीति आवेदनमभिलक्ष्य परिहारार्थं पृथक् समितिं न्ययोजयत्। जलशोषेण दूयमाने तमिल् नाटु राज्ये एकसप्ताहाभ्यन्तरे वृष्टिः भविता इति पर्यावरणनिरीक्षणकेन्द्रं वदति।

     उत्तरतमिल्नाटु राज्ये उष्णवातस्यापि साध्यतां प्रवक्ति।  जनैः जाग्रद्भिः भाव्यमिति सर्वकाराः असूचयन्। आगामिनि दिनद्वये तमिल्नाटु राज्ये तापमानं षट् डिग्रि सेल्ष्यस् अधिकं उन्नतौ भविष्यति इति निरीक्षणमप्यस्ति।

Leave a Reply

Your email address will not be published. Required fields are marked *