Daily Archives: June 23, 2019

राजस्थाने बृहद्वितानशालायाः भञ्जनेन १४ जनाः मृताः, बहवश्च रुग्णाः।

जयपुरम्- राजस्थाने बार्मर् स्थले बहती वितानशाला प्रभञ्ज्य पतिता। अनेन १४ जनाः मृताः अपघाते बहवो रुग्णाश्च सञ्जाता। रविवासरे मध्याह्नकाले आसीदपघातः।

बार्मरस्थे राणी बाट्टियानि मन्दिरे एकस्मिन् समारोहाभ्यन्तरे तत्समारोहस्य कृते निर्मिता शाला घोरवृष्ट्या वातेन च भूमावपतत्। अपघाते रुग्णानामवस्था गुरुतरा अस्ति। एते बलोत्रायां जोद्पुरे च चिकित्सालयं नीताः।

अपघातवार्तां श्रुत्वा वरिष्ठाः कर्मचारिणः जनप्रतिनिधयश्च तत्रागताः । तेषां नेतृत्वे रक्षाप्रवर्तनानि प्रचलन्ति।

अपघाते प्रधानमन्त्री अनुशोचनसन्देशं प्रैषयत्। रुग्णाः झटित्येव सुखं प्राप्नुयुः इति स आशशंस।

PRASNOTHARAM – 29-06-2019

 

प्रश्नोत्तरम्।

 

 

 

 

  1. ” सैव ” अस्य सन्धिच्छेदः कः ? (क) सा + इव  (ख) सा + एव  (ग) स + एव
  2. नाट्यशास्त्रस्य कर्ता कः ? (क) भरतमुनिः  (ख) भासः  (ग) कालिदासः
  3. तत्वज्ञानदिनं कस्य जन्मदिनं भवति? (क) स्वामी विवेकानन्दस्य  (ख) गान्धिजेः (ग) श्रीशङ्कराचार्यस्य
  4. “तत्वमसि “इति महावाक्यं कस्मिन् वेदे दृश्यते ? (क) ऋग्वेदे (ख) यजुर्वेदे (ग) सामवेदे
  5. संस्कृतलेखनाय उपयुज्यमाना लिपिः ? (क) ब्राह्मी लिपिः (ख) कैरली लिपिः (ग) देवनागरी लिपिः
  6. विश्वयोगादिनम्————–  (क) जूण् २०  (ख) जूण् २१  (ग) जूण् २२
  7. दर्शनेषु प्राचीनतमं दर्शनम्  ?(क) सांख्यम्  (ख) योगम् ((ग) न्यायम्
  8. अस्मद् शब्दस्य षष्ठी  एकवचनरूपम्  ? (क)  मम  (ख) माम्  (ग) मह्यम्
  9. ९६  इत्यस्य संस्कृतं लिखत। (क) षड्नवतिः (ख) नवषष्ठिः (ग) षण्णवतिः
  10. वेदस्य मुखं किम् ? (क) निरुक्तम् (ख) ज्योतिषम् (ग) व्याकरणम् 

ശരിയുത്തരങ്ങള്‍

  1. (ग) सा एव
  2. (क) भरतमुनिः
  3. (क) स्वामि विवेकानन्दस्य
  4. (ग) सामवेदे
  5. (ग) देवनागरिलिपिः
  6. (ख) जूण् २१
  7. (क) सांख्यम्
  8. (क) मम
  9. (ग) षण्णवतिः
  10. (ग) व्याकरणम्

ഈയാഴ്ചയിലെ വിജയി

KARTHIK T P (9 ശരിയുത്തരങ്ങള്‍)

“അഭിനന്ദനങ്ങള്‍”

9 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • Anaswara Mohan
  • Karthik T P
  • Mukil Damodaran
  • Sayanth K J
  • Jyotsna K S
  • Smitha Nambiar

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”