Daily Archives: June 3, 2019
विजयश्रीलालिताः स्युः।
![](https://navavani.org.in/wp/wp-content/uploads/2018/09/vija.png)
विद्यालयीय नववर्षाय शुभाशंसा-
कविता – विजयन् वि. पट्टाम्बि
ज्येष्ठमासीयोfयं कालः समागतस्ततः सर्वे
विद्यालयाः बहु सज्जाः छात्रपूर्णाश्च।
(ओ तित्तित्तारा…..)
वायुर्जातो महाशीतः जलदमालाश्च पुनः
वियदङ्गणेषु चित्रं रचितवत्यः।
(ओ.. तित्तित्तारा…)
बालिकाबालकास्सर्वे भरितामोदेन साकं
महितविद्यालयेषु मिलितवन्तः।
(ओ तित्तित्तारा…)
पठनं हा समारब्धं बहुविधलीलाश्चाथ
कथागङ्गा प्रवहति गुरुमुखाशच्च।
(ओ तित्तित्तारा…)
संस्कृतं पठत छात्राः जीवेयुश्च संस्कृताय
सर्वेभ्यश्च सुखं भूयाज्जगति नित्यम्।
(ओ तित्तित्तारा…)
नववाण्याः साहाय्येन जयिनस्स्युः पठनेषु
विजयश्रीलालिता स्युः विना विलम्बम्।।
(ओ तित्तित्तारा…)
सर्वं कलहहेतुकम् – 08-06-2019
नूतना समस्या –
“सर्वं कलहहेतुकम्”
ഒന്നാംസ്ഥാനം
കാപട്യം സർവരങ്ഗേഷു
പാരുഷ്യം വചനേ തഥാ
മര്യാദാഹീനതാ ചേതി
സർവം കലഹഹേതുകം
Bhaskaran N K
“അഭിനന്ദനങ്ങള്”
इरान् राष्ट्रेण सह निरुपाधिकचर्चायै सन्नद्धः – पोम्पियो।
![](https://navavani.org.in/wp/wp-content/uploads/2019/06/Screenshot_2019-06-03-10-19-24-299_com.eterno.jpg)
स्विट्सर्लन्ट्- उपाधिं विना इरानेन सह चर्चायै अमेरिका राष्ट्रं सन्नद्धमिति अमेरिका-राज्यसचिवः मैक् पोम्पियो वर्यः अवदत्। इरानं विरुद्ध्य सम्मर्दकार्यक्रमाः अनुवर्तिष्यन्ते इत्यपि स अवादीत्।
स्विस् विदेशकार्यमन्त्रिणा इग्नासियो कासिस् वर्येण सह चर्चायै एव पोम्पियो स्विट्सर्लन्ट् देशं प्राप्तः। इरान् सम्बन्धी अमेरिकानैतिकता स्विट्सर्लन्टेन प्रतिनिधीक्रियते। इरानेन सह यु.एस्. राष्ट्रस्य वर्षान् यावत् नयतन्त्रबन्धः नास्ति। अतः उपाधिं विना चर्चां कर्तु् सन्नद्ध इति कासिसेन सह पत्रकारमेलने पोम्पियो अवदत्।
एतस्मिन्नन्तरे आरबसागरे वर्तमानाः अमेरिकायाः नाविकपोताः इरानस्य प्रक्षेपास्त्रपरिधौ वर्तते, यदि सङ्घर्षः वर्तेत तर्हि तैलस्य मूल्यं प्रतिबारल् शतडोलर् अतिक्राम्येत इति इरानस्य परमोन्नतनेतुः आयत्तुल्ला खोमेनी वर्यस्य सैनिकोपदेष्टा यह्या रहीं सफावी सूचनामदात्।