Daily Archives: June 30, 2019

केरलीयरथ्यासु १० लक्षं ई यानानि प्रस्थास्यन्ति।

कोच्ची- पारिस्थितिकसंरक्षणं लक्ष्यीकृत्य केरलीयासु रथ्यासु १० लक्षं वैद्यतयानानां सेवनमायोजयितुं सर्वकारः निरणयत्। आगामिनि वर्षद्वयाभ्यन्तरे एतानि यानानि रथ्यासु विलसिष्यतीति मुख्यमन्त्री पिणरायि विजयन् वर्यः अब्रवीत्।

एरणाकुलं बोल्गाट्टीमन्दिरे आरब्धस्य इवोल्व् आख्यस्य केरल ई मोबिलिट्टि समारोहस्य उद्घाटनं विधास्यन् भाषमाणः आसीत् स। द्विलक्षं द्विचक्रिकायानानि ५०००० त्रिचक्रिकायानानि १००० वस्तुवाहकयानानि ३००० बस्यानानी १०० जलयानानी च अस्मिन्नन्तर्भवन्ति।

राज्ये वैद्युतवाहनमेखला अपि परिगणनायामस्ति। मून्नार्. कोवलं,बेक्कल् इत्यादीनि विनोदसञ्चारकेन्द्राणि तथा सचीवालयं, टेक्नोपार्क् इन्फोपार्क् इत्यादीनि च केन्द्रीकृत्य प्रथमघट्टे वैद्युतयानानि चालयिष्यन्ति।

वाणीयं हितकारिणी – 06-07-2019

 

नूतना समस्या –

“वाणीयं हितकारिणी”

ഒന്നാംസ്ഥാനം

അക്ഷരശ്ലോകരങ്ഗേഷു,
സമസ്യാപൂരണേഷ്വപി
ശോഭതേ സ്വപ്രഭാവേണ
വാണീയം ഹിതകാരിണീ.

Bhaskaran N K

“അഭിനന്ദനങ്ങള്‍”

PRASNOTHARAM – 06-07-2019

 

प्रश्नोत्तरम्।

 

 

 

  1. आवां पुस्तकम् ———। (क) अपठम्  (ख) अपठाव  (ग) अपठाम
  2. वयं पत्रम्  ——–। (क) अलिखन्  (ख) अलिखत (ग) अलिखाम
  3. ते बालकाः वार्ताम् ———-। (क) अपश्यन् (ख) अपश्यत  (ग) अपश्याम
  4. ताः महिलाः भोजनम् ———। (क) अपचन्  (ख) अपचाम (ग) अपचत
  5. ह्यः अहं विद्यालयं न ———। (क) अगच्छत् (ख) अगच्छः  (ग) अगच्छम्
  6. एतौ वानरौ फलम्  ———। (क) अखादतं (ख) अखादाव (ग) अखादताम् 
  7. यूयं किं कार्यम् ———–। (क) अकुरुत (ख) अकुर्म (ग) ्अकुर्वन्
  8. आवां गीतम् ———। (क) अगायाव (ख) अगायाम  (ग) अगायतम्
  9. सः ह्यः चलचित्रम् ——-। (क) अपश्यम्  (ख) अपश्यत्  (ग) अपश्यः 
  10. अहं घृहपाठम्  ———। (क) अकरोत् (ख) अकरवम् (ग) अकरोः

ഈയാഴ്ചയിലെ വിജയി

MAYA P R

“അഭിനന്ദനങ്ങള്‍”