Daily Archives: June 25, 2019

पुस्तकानां स्यूतानां च भारं विना पठनं मधुरम्- राज्यस्थः स्यूतमुक्तविद्यालयो भवति तरियोट् एस्.ए.एल्.पी. विद्यालयः

वयनाट्-  पाठपुस्तकानां स्यूतानां च भारं विना छात्राणां अध्ययनं मधुरं करोति वयनाट् तरियोट् देशस्थः सेर्विन्ड्या आदिवासी लोवर् प्रैमरी विद्यालयः। अत्र अद्येतारः रिक्तहस्ताः विद्यालयमागन्तुं प्रभवन्ति। स्यूतं तस्मिन् पाठपुस्तकानि च न वोढव्यानि। राज्यस्थः प्रथमः स्यूतमुक्तविद्यालयो भवत्ययम्।

     अस्याः पद्धतेः प्रथमसोपाने शिक्षकाणां रक्षाकर्तृ़णां च परिश्रमफलेन सर्वेभ्यः छात्रेभ्यः पाठपुस्तकानां युतकं अदात्। तयोः एकं विद्यालये अपरं गृहे च संरक्षति। द्वयोरेकं गतवर्षीयं पाठपुस्तकं भवति यत् पूर्विकेभ्यः छात्रेभ्यः सञ्चितं वर्तते। तद्वत् पठनोपकरणानां पेटिका मध्याह्नभोजनार्थं पात्राणि टिप्पणीपुस्तकादीनि च संरक्षितुं प्रतिवर्गं पृथक् निधानिकाः अपि सज्जीकृताः।

    प्राक्प्राथमिककक्ष्यातः चतुर्थवर्गं यावत् छात्रेषु 45 प्रतिशतं छात्राः गिरिवर्गजनजातीयाः सन्ति।  वयनाट् मण्डले छात्रगलनमुक्तो विद्यालयः अयम्। गतवर्षे बहुवारं गवेषणादिकं विधायैव एतादृशो निर्णयः विद्यालयाधिकृतैः स्वीकृतो वर्तते। विदेशराष्ट्राणां विद्यालयेषु पठनरीतिं साक्षाद्द्रष्टुम् अवसरः सञ्जातः, तदनन्तरमेव एतादृशम् आशयमधिकृत्य चिन्तिता इति प्रथमाध्यापिका अवदत्।

सोढुं नैवात्र शक्यते – 29-06-2019

 

नूतना समस्या –

“सोढुं नैवात्र शक्यते”

ഒന്നാംസ്ഥാനം

വനിതാനാം മനോദു:ഖം
ദിനേ ദിനേ ച വർധതേ
ശിശുഹത്യാദി വാർതാശ്ച
സോഢും നൈവാത്ര ശക്യതേ

Bhaskaran N K

“അഭിനന്ദനങ്ങള്‍”