Daily Archives: March 4, 2019

केरलीय संस्कृतसंधस्य नेतृत्वे द्विदिवसीया शिल्पशाला

तृशूर्- केरलीयसंस्कृतसंघस्य नेतृत्वे द्विदिवसीया शिल्पशाला २०१९ मार्च मासस्य ९,१० दिनाङ्कयोः तृशूर् केरलवर्मा कलालये आयोज्यते।
अस्य उद्घाटनं केरलकलामण्डलं कल्पितविश्वविद्यालयस्य कुलपतिः डो. टी.के. नारायणन् वर्यः निर्वक्ष्यति। उद्घाटनाधिवेशने डो, कावुम्पायि बालकृष्णन् वर्यः अध्यक्षो भविता। डो. वी.के. विजयन् स्वागतं व्याहरिष्यति।

उद्घाटनानन्तरं प्रभाषणानि भवितारः। नवोत्थानवीक्षणानि इति विषये डो. राजा हरिपिरसाद्, धर्मविश्वासः मानविकता च इति विषये डो. के.जी. पौलोस्, ज्योतिषं ज्योतिश्शास्त्रं च इति विषये डो. वी. आर्. मुरलीधरन्, मण्डलस्थेषु मन्दिरेषु आचारः विश्वासश्च इति विषये मुल्लमङ्गलं नारायणन् नम्पूतिरि , भारतीयदर्शनानि इति विषये डो. जे. प्रसाद् इत्येते प्रभाषणानि विधास्यन्ति।

कुवैत् राष्ट्रे योगप्रशिक्षणकेन्द्रं प्रवर्तनम् आरब्धम्।

कुवैत्- कुवैत् राष्ट्रे योगा हेल्त् प्लस् इति नामना योगप्रशिक्षणकेन्द्रं प्रवर्तनमारब्धम्। जीवितशैलीरोगान् योगाभ्यासद्वा  कथं प्रशमयितुं शक्यते इति मुख्यप्रभाषिका डो. अखिला विनोद् वर्या प्रत्यपादयत्। साल्मिया नाफो मण्डपे आयोजितं योगा हेल्त् प्लस् इत्यस्य उद्घाटनं डो. अखिला विनोद् वर्यया साकं नाफो अध्यक्षः विजयकृष्णः, राजीव् मेनोन्, लक्ष्मी प्रमोद्, अनिल् कुमार् इत्येये सम्भूय निरवहन्।