Daily Archives: March 15, 2019

संस्कृते भाषापाठनोपाधिपत्रपरीक्षां-डी.एल्.एड्- आयोजयितुम् अनुमतिः दत्ता।

तिरुवनन्तपुरम्- राष्ट्रिय-शिक्षकशिक्षासमितेः – एन्.सी.टी.ई.- मानदण्डानुसारं व्यवस्थां पालयितुमशक्तायाः संस्कृताध्यापकपरीक्षायाः स्थाने प्राथमिक-माध्यमिकस्तरेषु संस्कृतं पाठयितुं योग्यतारूपां डी.एल्.एड्. संस्कृतं परीक्षां चालयितुं सर्वकारेण अनुमतिः दत्ता। राज्यशैक्षिकानुसन्धानप्रशिक्षणसमितेः निर्देशान् अङ्गीकृत्यैव एषा अनुमतिः जाता।

मुम्बै नगरे यात्रिकसेतुभङ्गः, षट् जनाः मृताः।

मुम्बै- मुम्बै नगरे छत्रपति-शिवजि-सीमा रेल् निस्थाने यात्रिकसेतोः भङ्गेन षट् जनाः कालकबलीभूताः। एषु तिस्रः स्त्रियः सन्ति। अपि च अस्यां दुर्घटनायां ३५ जनाः रुग्णाश्च अभवन्।

     मुम्बै सी.एस्.टी. रेल् निस्थानात् रक्षिदलकेन्द्रं प्रति निर्मितः सेतुरेव अपघाते पतितः। राष्ट्रिय-दुरन्तनिवारण-सेना तत्र सन्नद्धसेवायां निरता वर्तते। मृतानां रुग्णानां च संख्या इतोप्यधिकं जायेत इति पत्रिकासूचना अस्ति। अपघातस्य कारणमधिकृत्य अन्वेषणाय महाराष्ट्रा सर्वकारेण आदेशो दत्तः।