Daily Archives: March 6, 2019

अयोध्या व्यवहारः- मगध्यस्थाय सर्वोच्चन्यायालयस्य निर्देशः।

नवदिल्लली -अयोध्याव्यवहारः विधिनिर्णयाय विन्यस्तः। माध्यस्थस्य साध्यता अन्वेष्टव्या इति निरीक्षणेन सहैव सर्वोच्चन्यायालयेन व्यवहारः विधिनिर्णयार्थं न्यस्तः। माध्यस्थानां नामनिर्देशायापि न्यायालयेन  आदिष्टः।

     एतस्मिन्नन्तरे माध्यस्थचर्चायां हिन्दूसंघटनाः अतृप्तिं सूचिवन्तः। माध्यस्थचर्चामधिकृत्य ज्ञातुं सामान्यजनाः विज्ञापनीयाः इति ते आवेदयन्। माध्यस्थचर्चायै सन्नद्धा इति इस्लां संघटनाःअसूचयन्। व्यवहारे परिभाषितानां रेखानां संशोधनाय षट्सप्ताहाधिकं समयं न्यायालयः अन्ववदत्। एतस्मिन्नन्तरे माध्यस्थमपि समायोजनीयं भवति। माध्यस्थचर्चा पराजयते चेत् अन्तिमवादाय न्यायालयः सन्नद्धो भविता।