Daily Archives: March 16, 2019

न्यूसिलाण्ट् राष्ट्रे इस्लामाराधनालये भुषुण्डिप्रयोगः, ४३ जनाः मृताः, नव भारतीयाः तिरोभूताः।

नवदिल्ली- न्यूसिलाण्डस्थे इस्लामाराधनालये संजाते तीव्रवादि आक्रमणे ४३ जनानां मृत्युः आवेदिता। सममेव भारतीयवंशजाः नव जनाः तिरोभूताः अभवत् इत्यप्यावेदनम। न्यूसिलाण्ट् भारतस्थानपतिः सञ्जीव् कोली वर्यः कार्यमिदं सूचितवान्। परं भुषुण्डिप्रयोगे एते मृताः इति एतावत्पर्यन्तं न आवेदितम्।

तिरोभूतान् भारतवंशजानधिकृत्य औद्योगिकं स्थिरीकरणं प्रतीक्ष्य तिष्ठति, तेषां परिवारे एतत्सम्बन्धिनी सूचना दीयते इत्यपि स्थानपतिः असूचयत्।

आक्रमणमनुबन्ध्य तिरोभूतानां सूचनाः सञचेतुं यतमानः अस्मि एतदर्थं न्यूसिलाण्ट् अधिकारिभिः सह वार्तालापं कुर्वन्नस्मीति विदेशकार्यवक्ता रवीष् कुमारः अब्रवीत्।