Monthly Archives: November 2017
देशीय-संस्कृत-विचारसभा।
सामान्यशिक्षाविभागस्य निर्देशानुसारं राज्य-संस्कृतशिक्षकसमितेः आभिमुख्ये एकदिनात्मिका राष्ट्रिय-संस्कृतसागोष्ठी अनन्तपुर्यां सुसम्पन्ना अभवत्। वी.जे.टी.हाल् मध्ये प्रचलितायाः सङ्गोष्ठ्याः उद्घाटनं भूतपूर्वः मुख्यसचिवः तथा संस्कृतविश्वविद्यालयस्य प्रथमः उपकुलपतिश्च डो. आर्. रामचनंद्रन् नायर् वर्यः निरवहत्। राज्य- शैक्षिकानुसन्धानप्रशिक्षणपरिषदः निदेशकः डो. जे. प्रसादः अध्यक्षः आसीत्। सामान्य-शिक्षा विभागस्य अतिरिक्तनिदेशकः जिम्मी.के.जोस् सर्वेभ्यो स्वागतम् अशशंसत्। संस्कृतविशिष्ठाधिकारिणी डो. टी.डी. सुनीतीदेवी महाभागा कृतज्ञतां च व्याहरत्। तिरुवनन्तपुरं शिक्षा उपनिदेशिका रमणी, संस्कृतं रिसर्च् आफीसर् वी. श्रीकण्ठः संस्कृतसमितेः कार्यदर्शी डो. सुनिल्कुमार् कोरोत् प्रभृतयः आशंसाम् अर्पितवन्तः।
अनन्तरं विचारसभा सम्पन्ना। डो.पी. नारायणन् नम्पूतिरी प्रोफ. वी. माधवन् पिल्ला महोदयौ प्रबन्धौ प्रास्तौताम्। केरलकलामणडलस्य रजिस्ट्रार् डो. के.के. सुन्दरेशः चर्चामनयत्।
मध्याह्नात् परं कोट्टण् हिल् विद्यालयीयैः छात्रैः मध्यमव्यायोगं रूपकं वेदिकायाम् अवतारितम्।
गोविक्रयनिरोधः- विवादविज्ञापनं प्रतिगृह्णाति।
नवदिल्ली – मांसार्थं गवां विक्रयणस्य निरोधपूर्वकं प्राशासनिकविज्ञापनं केन्द्रसर्वकारः प्रतिगृह्णाति। विविधानां राज्यसर्वकाराणाम् अभिप्रायं परिगणय्यैव विवादं विज्ञापनं प्रतिग्रहीतुं केन्द्रसर्वकारः निरणयत्। एनं निर्णयं केन्द्र-वनं- परिस्थितिमन्त्रालयः नियममन्त्रालयं व्यजिज्ञपत्।
नवीनां भेदगतिमन्तर्भूय इतरं विज्ञापनं प्रसारयितुमेव सर्वकारः प्रयतते। गते जूलै मासे विवादं विज्ञापनं सर्वोच्चन्यायालयेन स्थगितमासीत्। तदनन्तरमेव राज्यसर्वकाराणाम् अभिप्रायं केन्द्रसर्वकारः आमन्त्रयत्।
आङ् सान् स्यूची वर्यायाः ओक्स्फोर्ड पुरस्कारं प्रत्यपाययत्।
म्यान्मर् देशे ऱोहिङ्ग्यवंशीयान् प्रति सञ्जातानि आक्रमणानि निरोद्धुं परिश्रमः न कृतः इति कारणेन आङ् सान् स्यूची वर्यया प्राप्तः ओक्सफोर्ड् पुरस्कारः प्रतिगृह्यते। ओक्स्फोर्ड महानगरसमित्याम् ऐककण्ठ्येन जातः निर्णयो भवत्ययम्। १९९७ तमे वर्षे आसीत् तस्याः समाधानपुरस्कारप्राप्तिः।
भीकरां वंशहत्यामेव म्यानमर् देशे प्रचलतिॆ। षड्लक्षाधिकाः रोहिङ्ग्याभयार्थिनः बंग्लादेशंप्रति पलायिताः। राष्ट्राधिपतिः सत्यपि स्यूची तस्मिन् विषये निस्सङ्गा आसीत्, सा एतामवस्थां न दृष्टवती इति महानगरसमितिः प्रास्तावयत्। रोहिङ्ग्यानां मानवाधिकारसंग्रामे अनेन निर्णयेन समितिरपि भागभग्भवतीति महानगरसमित्या व्यक्तीकृतम्।
ओक्स्फोर्ड् मध्ये विद्यार्थी आसीत् स्यूची। तत्र तस्याः छायाचित्राणि नाम च आलेखितानि आसन्। तानि पूर्वमेव निष्कासितानि अभवन्।
संस्कृतविचारसभा श्वः सम्पत्स्यते ।
संस्कृतभाषां जनकीयां कृत्वा भाषां साहित्यं च नवीनपरम्पराभ्यः संक्रामयेत् इत्युद्देश्येन केरलीय सामान्यशिक्षाविभागेन आयोज्यमाना राष्ट्रियसंगोष्ठी श्वः अनन्तपुर्यां विक्टोरिया जूबिली तिय्येट्टर् नामिकायां वेदिकायाम् प्रचलिष्यति।
प्रातः १० वादने सामाजिकस्य वि.एस्. शिवकुमार् वर्यस्य आध्यक्ष्ये विद्याभ्यासमन्त्री प्रोफ. सी. रवीन्द्रनाथवर्यः संगोष्ठ्याः उद्घाटनं निर्वक्ष्यति। नगरपालः वी.के.प्रशान्तः मुख्यातिथिः भविता। भूतपूर्वः मुख्यसचिवः आर् रामचन्द्रन् नायर् मुख्यभाषणं च विधास्यति। संस्कृतसंगोष्ठीनाम् आमुखभाषणं राज्य शैक्षिकानुसन्धानप्रशिक्षणपरिषदः निदेशकः डो. जे. प्रसादः कर्ता। भाषाशास्त्रनियमाः इति विषये डो. पी. नारायणन् नम्पूतिरिवर्यः तथा संस्कृतभाषायाः समकालीना प्रसक्तिः इति विषये प्रो. वी. माधवन् पिल्लावर्यः च प्रबन्धौ प्रस्तोष्यतः।
पद्मावती चलच्चित्राय ऐक्यदार्ढ्यं विना कैरली चलचित्रमण्डलम्, कल्मषदिनाचरणात् व्यत्यचलत्।
कोच्ची- पद्मावती इति चलचित्रं तस्य निदेशकं लीला बन्साली वर्यं च विरुद्ध्य क्रियमाणेन प्रतिषेधेन आविष्कारस्वातन्त्र्यं हन्यते इति वादमुदीर्य आराष्ट्रं चलचित्रमण्डलं ह्यस्तने १५ निमेष पर्यन्तं चित्रीकरणं स्थगयन् प्रतिषेधं प्राकटयत्। परन्तु तस्मात् प्रतिषेधात् मलयालचलचित्रप्रवर्तकाः व्यतिचक्रमिरे। पञ्च चलचित्राणां चित्रीकरणानि अत्र प्रचलन्ति आसन्। क्वचिदपि प्रतिषेधशब्दं न श्रुतमित्येतत् अत्रत्यानां प्रतिषेधः केवलं वाचिमात्रमेवेति दृढमभवत्।
हितोपदेशकथाः।
हितोपदेशकथाः।
कथासंस्कृतम्।
कथासंस्कृतम्।
पेरुम्पटवं श्रीधरस्य ‘ओरु सङ्कीर्तनं पोले’ इत्याख्यायिका शततमं मुद्रणं याति।
अनन्तपुरी – कैरलीसाहित्ये अतिविख्याता ओरु सङ्कीर्तनं पोले इत्याख्यायिका शततमं मुद्रणं याति। चत्वारिंशत् वर्षाभ्यन्तरे एतावत्पर्यन्तं मुद्रणं भारतीयसाहित्यमण्डले अपूर्वमेव भवति। इतःपर्यन्तं लक्षद्वयम् अनुकृतयः प्रसिद्धीकृताः इत्येतेन करलीनोबल् मध्ये इदं उत्तमविकेतृपदं प्राप। पादशतकाभ्यन्तरे अस्य स्थानं केनापि नोबलेन नातिक्रान्तम्।
अस्याः आख्यायिकायाः शततमस्य मुद्रणस्य प्रकाशनं दिसम्बर् १० दिनाङ्के मुख्यमन्त्री पिणरायि विजयः तिरुवनन्तपुरं मुद्रणसमाजालये निर्वक्ष्यति।
PRASNOTHARAM – 02-12-2017
प्रश्नोत्तरम्
- केरलवात्मीकिः कः?
- अकुहविसर्जनीयानां स्थानं किम्?
- ‘मुहूर्तं ज्वलितं श्रेयः न तु धूमायितं चिरम्’- कस्मात् ग्रन्थादुद्धृतमिदं वचनम्?
- ‘सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च वंशानुचरितं चैवेति’ – कस्य लक्षणमिदम्?
- मालतीमाधवस्य कर्ता कः?
- उत्तिष्ठत जाग्रत, प्राप्य वरान्निबोधत – कस्य उपनिषदः वाक्यमिदम्?
- अभिज्ञानशाकुन्तले अभिज्ञानं किम्?
- केरलराज्ये आरक्षिदले प्रथमवनिता डी.जी.पी का?
- भारते प्रथमतया वैद्युतलोकयानं समारब्धं राज्यम्?
- २०१७ तम ब्रिक्स् सम्मेलनं कस्मिन् राष्ट्रे भवति?
ഇത്തവണ മൂഴുവന് ശരിയുത്തരങ്ങളും അയച്ചവര് ആരുമില്ല. എങ്കിലും 9 ശരിയുത്തരങ്ങള് അയച്ചവരില് നിന്നു് തെരഞ്ഞെടുത്ത സീത കെ. കപോതന് എന്നയാളെ വിജയിയായി പ്രഖ്യാപിക്കുന്നു. പങ്കെടുക്കുന്നവര് ഉത്തരങ്ങളുടെ കാര്യത്തില് കൂടുതല് സൂക്ഷ്മത പുലര്ത്തുമല്ലോ.
ശരിയുത്തരങ്ങള്:
- वल्लत्तोल् नारायण मेनोन्
- कण्ठः
- महाभारतम्
- पुराणम्
- भवभूतिः
- कठोपनिषत्
- अङ्गुलीयकम्
- आर्. श्रीलेखा
- हिमाचलप्रदेशः
- चीना।
“പങ്കെടുത്തവര്ക്കെല്ലാം അഭിനന്ദനങ്ങള്”