News Headlines
Sanskrit Radio
News in TV
वर्णच्छत्राणि वानमुत्थितानि। पूराघोषप्रेमिणां मनस्सु उत्साहं पूरयन् त्रिशिवपुरे पूराघोषे छत्रविन्यासः।केरलेषु माध्यमिकस्तरपर्यन्तं पठन्तेभ्यः छात्रेभ्य निश्शुल्कं गणवस्त्रदानम्। वितरणम् अस्मिन् मासे पूर्णं भविष्यति।अनुवैद्यानां कर्मस्थगनप्रक्षोभः प्रतिगृहीतः।१२ – १६ वयस्काः बालिकाः किं न? बालपीडकेभ्यो मृत्युदण्डः इत्यध्यादेशे वयःपरिधिं विरुध्य महानटः कमलहासः।मृगेषु सञ्चाल्यमानम् औषधपरीक्षणं मर्त्येषु, २१ ग्रामीणाः गुरुतरावस्थायाम्।सचिवालयं प्रति अनुवैद्यानां पथसञ्चलनम्।मेट्रो रेल् निलयस्य निकटे अट्टत्रययुक्तः प्रासादः प्रभञ्ज्य अपतत्। रेल्यानसेवनं भागिकतया निरुद्धम्।बालानां वाचनोत्सवस्य षार्जाराज्ये शुभारम्भः।कठ्वा विषयः राष्ट्रस्य अपमानकर इति राष्ट्रपतिः।राष्ट्रे मुद्रादौर्लभ्यं रूक्षम्, स्वयंप्रवृत्तिकोशाः शून्याः, सामान्यजनाः दुरितह्रदे, तात्कालिकमिति अरुण् जेट्ली।अद्य सम्पूर्णपिधानं(हट्ताल्) नास्ति, सामाजिकमाध्यमेषु प्रचारणं व्याजम्।तोमाविशुद्धः केरलान् नागच्छत्, सभाप्रस्तावं निरस्य इतिहासज्ञः एं.जी.एस्. नारायणन्।ऐश्वर्यस्य शुभदर्शनेन सह अद्य विषुवमहोत्सवः।कण्णूर् परियारं वैद्यकीयकलालयः सर्वकारेण स्वायत्तीकृतः।मलयालदेशस्य भारतस्य च अभिमानमूर्तिः मुहम्मद् अनस्- कोमण्वेल्त् क्रीडायां सुवर्णपतकसमानं चतुर्थं स्थानम्।पाठनार्थं पुनः पठेत्, अध्यापकानां केन्द्रमानदण्डानुसारं योग्यतानिर्णयः।सिरियादेशे रासायुधप्रयोगः, ७० जनाः मारिताः, शिष्टेषु केचन गुरुतरावस्थायाम्।पठनकार्ये पश्चाद्गमनकारणेन छात्राः विद्यालयेभ्य न निष्कासनीया इति सी.बी.एस्.ई.।काठ्मण्डूतः नवदिल्लीं प्रति रेल्यानपथनिर्माणार्थं समया।सर्वोच्चन्यायालयस्य निर्णयः अङ्गीकरिष्यते। सर्वे विद्यार्थिनः बहिर्गन्तव्याः भवन्ति। – स्वास्थ्यमन्त्रिणी के.के.शैलजा।<<1...4748495051525354555657...68>>
More >>