अनुवैद्यानां कर्मस्थगनप्रक्षोभः प्रतिगृहीतः।

तिरुवनन्तपुरम्- राज्ये अद्य आरभ्यमाणम् अनुवैद्यानां कर्मस्थगनसमरं प्रत्यग्रहीत्। तेषामावेदनं परिगणय्य वेतनपरिष्करणाय सर्वकारीणादेशः उद्घोषित इत्यतः समरमुखात् ते प्रतिनिवर्तन्ते। तथापि दैनिकभृतीनां न्यूनतां विरुध्य प्रक्षोभान्तरं आयोक्ष्यन्ते इति अनुवैद्यानां संघः असूचयत्। अद्य प्रचाल्यमानं पथसञ्चलनमपि प्रत्यपाययत्।

अद्य प्रभृति अनिश्चितकालसमरः इति अनुवैद्यानां प्रख्यापनात् पश्चात् ह्यः अपराह्णे एव वेतनपरिष्करणाय आदेशः उद्घोषितः। आदेशस्य हस्तप्राप्तिपर्यन्तं समर इति अनुवैद्यानां संघः(यु.एन्.ए.) पूर्वं निश्चियं करोति स्म। तदपि अधुना निरस्तः।

Leave a Reply

Your email address will not be published. Required fields are marked *