केरलेषु माध्यमिकस्तरपर्यन्तं पठन्तेभ्यः छात्रेभ्य निश्शुल्कं गणवस्त्रदानम्। वितरणम् अस्मिन् मासे पूर्णं भविष्यति।

तिरुवनन्तपुरम्- राज्यस्थानां प्राथमिक-माध्यमिकस्तरीयाणां छात्राणां कृते मूल्यस्वीकारं विना गणवस्त्राणि दीयन्ते। एषां वितरणम् अस्मिन् मासे एव पूर्णं भविष्यति। सार्धचतुर्लक्षं छात्राः अस्याः पद्धतेः गुणभोक्तारः भवन्ति।हस्तवेमनिर्मितानि वस्त्राण्येव एतदर्थमुपयुज्यन्ते। विद्यालयाधिष्ठितं वर्णवैविध्यं भवेत् इत्यतः विविधेषु वर्णेषु २३ लक्षं मीट्टर् पटाः हान्टेक्स् हान्वीव् संस्थाभ्याम् एतदर्थं सज्जीकृताः सन्ति। तिरुवनन्तपुरतः एरणाकुलपर्यन्तानां सप्तानां दक्षिणजनपदानां कृते हान्टेक्स् संस्था, इतरेषाम् उत्तरजनपदानां कृते हान्वीव् संस्था च गणवस्त्राणि दातुं सन्नद्धे भवतः।प्रतिछात्रं द्वियुगलं गणवस्त्रं दीयते।

Leave a Reply

Your email address will not be published. Required fields are marked *