ऐश्वर्यस्य शुभदर्शनेन सह अद्य विषुवमहोत्सवः।

।गुरुवायूर्- आगम्यमानानां शुभदिनानां प्रतीक्षया सह विषुशुभदर्शनाय मन्दिरेषु महान् भक्तजनसम्मर्दः। केरलीयाः ऐश्वर्यस्य समृद्धेश्च आगमनम् उद्घोषयन्तः अद्य विषुवमहोत्सवं समाचरन्ति। नववर्षं प्रति पदविन्यास एव विषुवस्य प्रसक्तिः। स्नेहप्रतीकैः फलैः सह कर्णिकारकुसुमानां पीतवर्णः विषुवोपहारस्य ऐश्वर्यं च अमुमुत्सवं महत्तरं नयन्ति।

केरलीयानां कार्षिकोत्सवः खलु विषुवोत्सवः। आगामिवर्षस्य समग्रफलमपि विषुफलमिति नाम्ना गणयन्ति जनाः। विषुवसमानाः उत्सवाः भारतस्य विभिन्नेषु प्रान्तेषु अस्मिन्नेव दिने आचर्यन्ते। सूर्यस्य मेषराशिसंक्रान्तिदिने विषुवमायाति। अत एव विषुवशुभदर्शनार्थं मन्दिरेषु भक्तजनसम्मर्दः अनुभूयन्ते।

सर्वेभ्ये नववाणीसङ्घस्य विषुवशुभकामनाः अर्पयामः।

Leave a Reply

Your email address will not be published. Required fields are marked *