मलयालदेशस्य भारतस्य च अभिमानमूर्तिः मुहम्मद् अनस्- कोमण्वेल्त् क्रीडायां सुवर्णपतकसमानं चतुर्थं स्थानम्।

गोल्ड् कोस्ट्- कोमण्वेल्त् क्रीडासत्रे पुरुषविभागे ४०० मीट्टर् धावनस्पर्धायां केरलीयः मुहम्मद् अनस् चतुर्थस्थानमावहत्। षट् दशकानन्तरं भारतस्य कृते क्रीडायाः अन्तिमचरणं प्राप्य अनस् इतिहासमारचयत्।

अन्तिमचरणे श्रेष्ठतां प्रकटयन्नपि चतुर्थस्थानं गतत्वात् पतकं न प्राप। स ४५.३१ स्पन्दसमयेन लक्ष्यं प्राप। अस्मिन् मत्सरे ऐसक् मक्वाना सुवर्णपतकं स्वायत्तीकृतवान्। बोट्स्वाना देशीयः स ४४.३५ स्पन्दसमयेन लक्ष्यं प्राप।

ह्यः सम्पन्ने उपान्तचरणमत्सरे चतुर्थे पादे धावन् अनस् ४४.४४ स्पन्दसमये लक्ष्यं प्राप्य अन्तिमचरणमत्सराय योग्यो/भवत्। इतः पूर्वं १९५८ कमे वर्षे काजिफल् मिल्खा सिङ् वर्यः अस्मिन् विभागे अन्तिमचरणक्रीडां प्रविशति स्म।

Leave a Reply

Your email address will not be published. Required fields are marked *