सर्वोच्चन्यायालयस्य निर्णयः अङ्गीकरिष्यते। सर्वे विद्यार्थिनः बहिर्गन्तव्याः भवन्ति। – स्वास्थ्यमन्त्रिणी के.के.शैलजा।

तिरुवनन्तपुरम् – कण्णूर् अञ्चरक्कण्टि, करूणा वैद्यकीयकलालययोः २०१६-१७ वर्षस्य छात्रप्रवेशनसम्बन्धिनं सर्वोच्चन्यायालयनिर्णयं सर्वकारः अङ्गीकरिष्यति इति स्वास्थ्यसचिवा के.के. शैलजावर्या अवदत्। निर्णयानुसारं उभयोः कलालययोः तद्वर्षीयाः सर्वे छात्राः बहिर्गमनीयाः भवन्ति इत्यपि सा न्यगादीत्।

न्यायालयस्य विधिनिर्णयः अनुसरणीयः। निर्णयं नियमान्तरेण अतिक्रान्तुं सर्वकारस्य भागे परिश्रमः नास्ति इत्यपि रिपोर्टर् वार्तानालिकायाः क्लोस्ट् एन्कौण्टर् इति प्रतिवारकार्यक्रमे भगं भजन्ती सा निगदितवती।

Leave a Reply

Your email address will not be published. Required fields are marked *