काठ्मण्डूतः नवदिल्लीं प्रति रेल्यानपथनिर्माणार्थं समया।

नवदिल्ली- नेपालस्य काठ्मण्डूतः भारतं प्रति रेल्यानपथं निर्मातुं भारतं नेपालश्च समयामकुरुताम्। प्रतिरोध-सुरक्षा-यातायात-वाणिज्यरंगेषु द्वयोः राष्ट्रयोः मिथः सहकारित्वं शक्तं कर्तुमपि समया जाता।

     भारते पर्यटनं कुर्वता नेपाल् प्रधानमन्त्रिणा के.पी. शर्मा ओलीवर्येण सह चर्चायाः अनन्तरं प्रधानमन्त्रिणा नरेन्द्रमोदिना इदं स्पष्ठीकृतम्। द्वयोः राष्ट्रयोः अन्तराले विवृतस्य सीम्नः दुरुपयोगितां निरोद्धुं शक्तः निर्णयः भविता। भारतेन सह सहकरणं नेपालस्य परमप्रधानमिति के.पी. शर्म ओली वर्यः अभिप्रैति स्म।

     नेपाल् सन्दर्शनार्थं प्रधानमन्त्रिणं नरेन्द्रमोदिनं स आमन्त्रितवान्। राष्ट्रपतिना रामनाथकोविन्देन सहापि ओलीवर्यः साक्षात्कारं कृतवान्।

Leave a Reply

Your email address will not be published. Required fields are marked *