पाठनार्थं पुनः पठेत्, अध्यापकानां केन्द्रमानदण्डानुसारं योग्यतानिर्णयः।

तिरुवनन्तपुरम्- माध्यमिकस्तरे अध्यापकानां स्नातकबिरुदम् उच्चस्तरे स्नातकोत्तरबिरुदं च अवश्यां योग्यतां कारयति। तद्वत् अध्यापकप्रशिक्षणानुसन्धानकेन्द्रे- (डयट्) विद्यावारिधिबिरुदम् अथवा नेट् परीक्षाविजयश्च अवश्यं कारयति। २०१९ एप्रिल् प्रथमदिनात् इयं व्यवस्था प्राबल्ये भविता। तावदवधि अध्यापका‌ः स्तरानुसारं योग्यतां स्वायत्तीकुर्युः।

केन्द्रीय शिक्षाधिकारनियमान् अनुसृत्य इदं परिवर्तनं प्राबल्यं कर्तुं राष्ट्रिय-शिक्षकप्रशिक्षण-समितेः (एन्.सी.टी.ई)निर्देशः।

प्रथमतः पञ्चमकक्ष्यापर्यन्तं प्राथमिकस्तरः, षष्ठतः अष्टमकक्ष्यापर्यन्तं माध्यमिकस्तरः, नवमदशमकक्ष्ये उच्चस्तरः, एकादशद्वादशकक्ष्ये उच्चतरस्तरः इत्यस्ति स्तरनिर्णयः। माध्यमिकस्तरादारभ्य प्रत्येकं विषयस्य पाठने तत्तद्विषये विरुदमावश्यकम्।

Leave a Reply

Your email address will not be published. Required fields are marked *