१२ – १६ वयस्काः बालिकाः किं न? बालपीडकेभ्यो मृत्युदण्डः इत्यध्यादेशे वयःपरिधिं विरुध्य महानटः कमलहासः।

चेन्नै- महानटः तथा मक्कळ् नीति मय्यम् इति दलस्य नेता च कमलहासः बालपीडकेभ्यो मृत्युदण्ड इति पोक्सो नियमस्य संशोधने वयः परिधिविषये विप्रतिपन्नः अस्ति। अस्मिन्नध्यादेशे वयःपरिधि १६पर्यन्तं भवेदिति स चेन्नैनगरे उक्तवान्।
गतदिने राष्ट्रपतिना अङ्गीकृते अध्यादेशे ऊनद्वादशवयस्कानामुपरि यदि पीडा जायेत तर्हि पीडकेभ्ये मृत्युदण्डः १२ तः १६ पर्यन्तं वयस्कानां पीडा जायेत चेत् पीडकेभ्ये आजीवं कारावासः इति रूपेण पोक्सो नियमे संशोधनमभवत्। अत्र वयः परिधिः ऊनषोडशवयः इति परिवर्तनं करणीयमिति कमलहासः संसूचितवान्।

Leave a Reply

Your email address will not be published. Required fields are marked *