सिरियादेशे रासायुधप्रयोगः, ७० जनाः मारिताः, शिष्टेषु केचन गुरुतरावस्थायाम्।

दमास्कस् – सिरियायां पुनः रासायुधप्रयोगः। विमतमेखलायां दूमायां सञ्जाते आक्रमणे ७० जनाः मारिताः। तेषु स्त्रियः शिशवश्चान्तर्भवन्ति। शनिवासरे रात्रावेव रासायुधप्रयोगः सञ्जातः। आक्रमणे नैके जनाः रुग्णाश्च सञ्जाताः।

     क्लोरिन् वातकसंयुक्तमेव आक्रमणाय उपयुक्तमिति संशयः।वदनात् फेनप्रस्रवणरूपाणि शिशूनां चित्राणि चलचित्राणि च नवमाध्यमेषु बहुप्रचारितानि दृश्यन्ते।

     प्रदेशात् जनाः अपवारयन्तः सन्ति। रुग्णेषु बहूनाम् अवस्था गुरुतरा इत्यतः मृत्युसंख्यायां वर्धना जायेतेति वैट् हेल्मेट् संस्था आवेदयत्। परन्तु रासायुधप्रयोगस्य आधिकारिकं स्थिरीकरणं नागतम्।

Leave a Reply

Your email address will not be published. Required fields are marked *