मेट्रो रेल् निलयस्य निकटे अट्टत्रययुक्तः प्रासादः प्रभञ्ज्य अपतत्। रेल्यानसेवनं भागिकतया निरुद्धम्।

कोच्ची- एरणातुलं कलूरे अट्टत्रययुक्तः प्रासादः निर्माणावस्थायामेव भग्नमभूत्। अपघाते मर्त्यानामपायो नास्ति। ह्यः रात्रौ दशनादने कलूर् मेट्रो निलयसमीपे एव प्रासादः पतित्वा भूमिमन्तर्गतः। अपघातेन मेट्रो सेवनं तात्कालिकतया अवसितम्। निकटस्थं रथ्यागतागतमपि तात्कालिकतया निरुद्धम्। सुरक्षाकारणेनैव सेवनभङ्गः अभवत्।

Leave a Reply

Your email address will not be published. Required fields are marked *