Monthly Archives: April 2020

विरामकालीनोल्लासाः- एस्.सी.ई.आर्.टी. संस्थायाः नेतृत्वे क्रीडा कला वसन्तः।

तिरुवनन्तपुरम्- विद्यालयानाम् अप्रतीक्षिते विरामे घोषिते विरामकाले गृहे एव स्थातुं निर्दिष्टानां छात्राणां स्वास्थ्य-क्रीडावीनोद-सृजनात्मकादीनां शेषीणां परिपोषणार्थं राज्य शैक्षिकानुसन्धानप्रशिक्षणपरिषदः आध्यक्ष्ये कैट् संस्थायाः तान्त्रिकसहयोगेन अधिजालिकप्रशिक्षणपद्धतिः समारब्धा।
विरामकालीनसन्तोषाः इति अधिजालिकप्रशिक्षणपद्धतेः भागत्वेन प्रत्येकं प्रवर्तनं छात्राः गृहे एव तिष्ठन्तः प्रशिक्षितुं पारयन्ति। *एक्सर्सैस् अट् होम्* इति नाम्ना व्यायामपद्धतिरपि अस्मिन्नन्तर्भवति। समग्र पोर्टल् मध्ये एव एते विभवाः सन्ति। एतत्सम्बन्धीनि ह्रस्वचलनचित्राणि पोर्टल् मध्ये अधिरोपितानि। क्रीडाक्षमतां प्रतिरोधशक्तिं च परिवर्धयितुं जीवितशैलीरोगान् प्रतिरोद्धुं च चलनचित्राणां निर्देशानुसारं प्रवर्तनं कर्तुं शक्यते।
तद्वत् विविधानां कलारूपाणां विवरणमपि आयोजितं वर्तते। संरम्भोयं छात्राणां आस्वाद्यकरं नूतनानुभवं प्रदास्यति इति एस्.सी.इ.आर्.टी. निदेशकः डो. जे. प्रसाद् वर्यः अवदत्।

https://samagra.kite.kerala.gov.in/home/page

कोरोणा भयकारिणी (भागः १२६) – 11-04-2020

EPISODE – 126

नूतना समस्या –

“कोरोणा भयकारिणी”

ഒന്നാംസ്ഥാനം

അത്യുഗ്രം ഗരളം ധൃത്വാ
മർത്യവംശവിനാശിനീ
ഭൂലോകതാണ്ഡവേ സക്താ
കൊറോണാ ഭയകാരിണീ

Narayanan N

“അഭിനന്ദനങ്ങള്‍”

 

चलच्चित्रसंगीतनिदेशकः एं.के. अर्जुनन् वर्यः दिवङगतः।

एरणाकुलम्- विख्यातः चलचित्रसंगीतनिदेशकः एम्.के. अर्जुनन् वर्यः कालकबलितः अभवत्। कोच्ची पल्लुरुत्ती स्थले स्वकीये गृहे प्रातः 3.30 वादने आसीत् मृत्युः। स 84 वयस्कः आसीत्।

     700 अधिकानां चलच्चित्राणां नाटकानां च कृते स संगीतं व्यदधात्। 2017 तमे वर्षे भयानकम् इति चलच्चित्रस्य संगीतायोजनद्वारा राज्यसर्वकारस्य पुरस्कारः अनेन प्राप्तः।

     विख्यातगायकस्य येशुदासस्य शब्दः प्रथमतया अस्य महात्मनः निदेशत्वे एव मुद्रितः आसीत्। एवमेव ए.आर्. रह्मान् वर्यस्य चलचित्रसंगीतरंगप्रवेशः अपि अर्दुनन् मास्टर् द्वारा आसीत्।

अभिनवनीतिसारम् – मुत्तलपुरं मोहन्दास्।

नीतिसारमवलम्ब्य कृतम्

अभिनवनीतिसारम्

  • मुत्तलपुरं मोहन्दास्

प्रणम्य शैलजामाद्यम् आत्मविश्वासदायिनीं

नीतिसारं प्रवक्ष्यामि कोविदामयमुक्तये।।

Let me, at the outset, pay my due respects to Shailaja, who gives self confidence and then shall I describe the proper things to do in escaping the hardships rendered by Covid the virus, in these days.

श्रूयतामद्य कर्तव्यं श्रृत्वा चैव समाचरेत्।

आत्मनः प्रतिकूलाणुं* मा परेषु प्रसारयेत्।।

Listen to what is the proper things that should be done during this hard times. It is important to translate these into deeds. Corana virus* that you

may have acquired should not be shared with others.

अपरीक्ष्य न कर्तव्या चिकित्सा स्वयमेव च।

कदाचित् भवति सन्देहः कोविदे जलदोषवत्।।

Don’t administer medicines to yourself, without proper diagnosis. Covid, through symptoms, may sometimes be misunderstood as Common Cold.

अवश्यमनुभोक्तव्यो कष्टकाल इहागतः।

नास्ति गत्यन्तरं ह्यद्य कोरोणाणुविनाशनात्।।

We have to endure the hardships due to the current Lock Down, as we have no other option except eliminating the Corona Virus.

धान्यपोषणशीलत्वं वत्सपोषः स्वयंकृषी

पित्रोस्सेवनमुत्तमं कोरोणामयकालिकम्।।

The good things that one can do during confinement to one’s home, during the Lock Down include agricultural activities like growing crops and vegetables, caring for children and nursing parents etc.

सर्वकारो विजानाति जनोद्बोधनकष्टताम्।

नहि मूर्खा विजानन्ति कोरोणाणुकवैभवम्।।

Only those in the Government know the difficulty in building awareness among the public. Alas, many of the block-headed do not comprehend how fierce this virus situation actually is.

मूर्खैरनुयायिभिर्दुष्टजनगूढसंगमैः

द्विषतां संप्रयोगेन पार्टिर्दुष्यति च क्रमात्।।

Any party will corrupt due to followers sans sense and discretion as also due to conspiracy of foes.

आरण्यरुदितं जातं सर्वकारप्रबोधनम्।

लीयते च जनारावे रक्षकाणां प्ररोदनम्।।

The forebodings of the Government becomes mere cries in the wild. The imploring of the police too are wasted in the public noise.

अनाच्छाद्य मुखं स्वस्य हसन्तं वा भषन्तं वा

ज्वरकफबाधितश्चेत् दूरतः परिवर्जयेत्।।

Those who laugh aloud, cough or sneeze without covering the mouth and nose, as well as those who are suffering from cold and/or fever should (compulsorily) be isolated.

अर्थाः गृहे निवर्तन्ते श्मशाने पुत्रबान्धवाः

नूतनं वासमन्विष्य प्रतिनिवर्तेत कोविदः*।।

At the call of death, wealth deserts at home, relatives at the graveyard. The Covid germ* leaves a dead body and seeks a living one.

माता पिता वा शत्रुस्स्यात् कोविदेन तु बाधितः।

सभामध्ये धरेत्तस्मात् मुखावरणमुत्तमम्।।

Once one contracts Corona, even parents will be like enemies. So make it a practice to wear a good face mask when you meet others.

एकधा दशधा शतधा च सहस्रधा च

रणे पार्थशरोवृष्टिस्तथा कोविदव्यापनम्।।

The Covid spreads like the arrows from Arjun’s bow. One initially, multiplies into ten, then into hundred in flight and thousand while reaching the target.

 

हर्ताल् कदा भवति? कारणमस्य किं वा?

पेट्रोलियस्य विपणिमूल्यविवर्धनञ्च

सामूहिकं सपदिकोविदव्यापनञ्च

देवो न जानाति कुतो मनुष्यः?

The hike in petrol prices, outset of a hartal and its causes cannot be predicted. Similarly when Corona turning into pandemic proportions is not known to the Almighty. What to say then about man’s helplessness!

शकटं पञ्चहस्तेषु दशहस्तेषु वाजिनं

गजं हस्तसहस्रेषु कोरोणां दूरतस्त्यजेत्।

One should keep oneself away by five palm length from vehicle, ten lengths from horse, thousand from elephant. The distance should be even greater from Covid-affected.

मानवस्य लघुतामुदाहरन्

राष्ट्रदुर्मदमपि च संहरन्।

कोविदस्य च समीक्ष्य ताण्डवं

ज्ञायतेह विधिरेव शक्तिमान्।।

Observing the way the virus is running riot, proving that  man is insignificant and suppressing the rudeness of the monopolies of the superpowers, feel after all destiny is omnipotent.

रूपयौवनसम्पन्ने विशालकुलसंभवे

विद्याहीने च मूढे वा कोविदस्य नहि भेदः।

Covid makes no partiality among the wise and foolish, elegant and ugly,  elite, lowly, young and old.

सिंहादेकं बकादेकं शिक्षेच्चत्वारि कुक्कुटात्

वायसात् पञ्च शिक्षेच्च शतं कोविदसद्गुरोः।

We have to learn a lesson each from lion and stork, four from chicken , five from crow and hundreds from this eminent teacher called Covid 19.

अनित्यानि शरीराणि वैभवं नैव शाश्वतं

नित्यः सन्निहितो मृत्युः प्रलयकोविदादिभिः।

The body is destructible. One’s skills are perishable. The only sure and eternal thing is death, which is so close to all. It can come through Covid infection or deluge etc..

परोपि हितवान् बन्धुः बन्धुरप्यहितः परः

कोविदे मूर्च्छिते राष्ट्रैर्ज्ञायतेदं सुभाषितम्।

If an other person, though enemy , acts according to what is good for us, he is indeed the best friend. Foe is one who does what is not suited. Many countries realized the essence of this saying, when Covid 19 spread.

पुस्तकस्थापिता विद्या परदेशगतः पुत्रः

परहस्तगतं वित्तं किं कृते कोविदागते?

Once Covid strikes, what use is there of the wisdom only in books, a son in a far away country or one’s money that is in other’s possession!

मरणान्तानि वैराणि प्रणतान्ता हि कोपिता

याचितान्तञ्च गौरवम् एवं वदति कोविदः ।

Covid says: With death ends all enmity, Anger dies with humility, Self Respect when forced to beg. (We have seen how many “cleverer than thou’ attitude of many monopoly nations turning into humble request)

 

PRASNOTHARAM (भागः १२६) – 11-04-2020

EPISODE- 126

 

प्रश्नोत्तरम्।

 

 

 

  1. ——- ग्रन्थः पठ्यते। (क) तेन   (ख) सः  (ग) तौ
  2. तया ——- श्रूयते। (क) शब्दं  (ख) शब्दः  (ग) शब्दौ
  3. एतेन कथा ——।(क) उच्यते  (ख) उच्यन्ते  (ग) उच्येते
  4. मात्रा  गीता ——-। (क) पठ्येते  (ख) पठ्यन्ते  (ग) पठ्यते
  5. छात्रेण —— पठ्यते । (क) वाक्यानि (ख) वाक्यं (ग) वाक्ये
  6. आपणिकेन ——– गम्यते। (क) आपणः  (ख) आपणौ  (ग) आपणे
  7. बालेन चित्रं ——। (क) दृश्यते   (ख) दृश्येते  (ग) दृश्यन्ते
  8. शिशुना ——– दृश्यते । (क) माता  (ख) मातरः  (ग) मातरं
  9.  ——- स्वप्नः दृश्यते । (क) वृद्धः   (ख) वृद्धेन  (ग) वृद्धं
  10.  कृषकेण क्षेत्रं ——-। (क) गम्येते  (ख) गम्यन्ते  (ग) गम्यते

 

ഈയാഴ്ചയിലെ വിജയി

KISHORE KRISHNA SEVADAI

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍:

  • KISHORE KRISHNA SEVADAI
  • Sreesha Vinod
  • Lijina K M
  • Divyachithran N V
  • Adidev C S
  • Adithyan K L

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

 

वेतनाभिग्रहः यदि विजयप्रदो न भवेत्तर्हि वेतनन्यूनीकरणम् अवश्यं भवेत्।- वित्तमन्त्री।

तिरुवनन्तपुरम्- वेतनाभिग्रहः विजयो न भवति चेत् इतरराज्यानि यथा अकुर्वन् तथा वेतनन्यूनीकरणं कर्तव्यं स्यात् इति केरलीयवित्तमन्त्री डो. टी.एम्. तोमस् ऐसेक् वर्यः अवदत्। वेतनाभिग्रहं प्रति कर्मकराणां प्रतिकरणम् अवलोक्य अस्मिन् विषये निर्णयो भविष्यति। सर्वेपि एकमासावधिकं वेतनं दातुं सन्नद्धाः स्युः इत्यपि तेन निगदितम्।

कोविड् प्रतिरोधः – एप्रिल् पञ्चमे तिथौ रात्रौ नववादने ह्रस्वदीपान् प्रज्वालयन्तु। प्रथानमन्त्री जनान् प्रति।

नवदिल्ली- राष्ट्रे घोषितेन पूर्णपिधानेन सहकृतान् सर्वान् जनान् स्वकीयां कृतज्ञताम् आवेदयत् प्रधानमन्त्री नरेन्द्रमोदीवर्यः। पिधाने अनुवर्तमानान् राष्ट्रियान् अभिसम्बोधयन् भाषमाण  आसीत् प्रधानमन्त्री। सर्वे जनाः अनुशासनं पालितवन्तः। राष्ट्रम् एकीभूय कोविड् प्रतिरोधार्थं यतते। बहूनि राष्ट्राणि भारतं आदर्शत्वेन पश्यन्ति।

     एकाकी सन् कथं रोदं प्रतिरोधयति इति सर्वेषाम् आश्ङ्का अस्ति। अस्मिन् विषये कोपि एकाकी नास्ति। 130 कोटि परिमिताः जनाः एकीभूय अस्मिन्नाहवे सन्ति। एप्रिल् पञ्चमे दिने रात्रौ नववादने गृहाणि पुरतः ह्रस्वदीपं, करदीपं मोबैल् प्रकाशं वा प्रज्वाल्य सर्वैः स्थातव्यम्। प्रकाशममुं 130 कोटिजनानां शक्तिरूपेण पश्यन्तु। एतस्मिन्नन्तरे न कोपि बहिर्गच्छेत् सम्भूय न तिष्ठेच्च इत्यपि प्रधानमन्त्री अवदत्। पूर्णपिधानं कदा अवसीयते इति तेन नोक्तम्।

निजामुद्दीन् धर्मसम्मेलने भागं गृहीतानां ५० तमिल् नाटु जनानां कोविड्-१९ बाधा।

चेन्नै- दिल्ली निजामुद्दीन् स्थले प्रचलिते धर्मसम्मेलने भागं गृहीतेषु १५०० तमिल् नाटु देशीयेषु ११३० जनाः एव प्रतिनिवृत्ताः इति तमिल् नाटु स्वास्थ्य सचिवा बीला राजेष् वर्या अवदत्। शिष्टाः दिल्यामेव सन्तीत्यपि सा अवदत्।

प्रतिनिवृत्तेषु ५१५ जनाः अवगताः। तेषु ५० जनानां कोरोणा विषाणुबाधा स्थिरीकृता। अनेन राज्ये कोरोणा बाधितानां संख्या १२४ जाता।