कविता – विजयन् वि पट्टाम्बी।

यतामहे वयं सदा।

१. चीनादेशे समुत्पन्ना

चीयमाना क्षणे क्षणे।

व्याप्नोति सर्वराष्ट्रेषु

कोविड् हा भयकारिणी।।

२.जनान् सहस्रशांश्चाद्य

हन्ति संक्रमणात्मिका।

जनास्तत्राः समाविष्टाः

यथादिष्टाः गृहोदरे।।

३. पिहिताश्च जनास्सर्वे

सर्वकारेण तत्क्षणम्।

गृहीता मञ्चनिक्षिप्ताः

क्षीणाश्च पन्नगा यथा।।

४. स्वदेशिनो गृहस्थास्तु

परिवारसमन्विताः।

गृहान्तरे∫वसन् स्वस्थाः

नीडेषु पक्षिणो यथा।।

५. केचिन्महानसं प्राप्य

भक्ष्याणि हा यथारुचि।

निर्माय च यथाकालं

पक्वानि पर्यवेषयन्।।

६. केचन स्वस्ववैदग्द्यं

गानेनाभिनयेन च।

प्रदर्श्य मोदमापन्नाः

वाट्साप् द्वारेण सत्वरम्।

७. आबालं हा जनास्सर्वे

मोबैल् वीक्ष्य मुदान्विताः।

जाग्रताञ्च समाश्रित्य

भुङ्क्त्वा सुप्त्वा च रेमिरे।।

८. सर्वकारास्तु साकूतं

जनानां सेवने रताः।

भक्ष्यवस्तूनि सञ्चित्य

ददन्तो धन्यतां गताः।।

९. बहुदिनान्यतीतानि

जनास्तु बहवो  हताः।

बहुसहस्रमितो हन्त

वैद्यशालासु संस्थिताः।।

१०.भिषग्वरस्त्वहोरात्र-

मनुवैद्यसमावृतः।

शुश्रूषायां  निमग्नः सन्

देवतासममैक्षत।।

११. कोविड् व्याधिना व्याप्तं

भुवनं सर्वमिदं क्षणात्।

शास्त्रसम्पत्समायुक्तं

भारतं मुक्तिमाप्नुयात्।।

१२. भयं त्यक्त्वा जयं प्राप्तुं

यतामहे वयं सदा।

स्वास्थ्यलाभाय सर्वेषां

प्रार्थये च  निरन्तरम्।।