कोविड् प्रतिरोधार्थं भारते अद्य ‘जनतानिषेधाज्ञा’ अनुष्ठीयते।

नवदिल्ली- कोविड्-१९ आख्यस्य नवीन कोरोणाविषाणोः व्यापनम् अतिशीघ्रम् आापतति। नवीनामयः इत्यतः प्रतिरोधौषधम् अद्यावधि नानावृतम्। अस्मिन् प्रसङ्गे जागरूकता एव वरम् इति आविश्वं शासनकर्तारः भिषग्वराः अन्ये विद्वांसश्च अनवरतं वदन्ति।

भारते अद्य जनतानिषेधाज्ञा आचर्यते। प्रातः सप्तवादनादारभ्य रात्रौ नववादनं यावत् जनाः गृहेष्वेव तिष्ठेयुः, तत्र शुचीकरणकर्मणि निरताश्च भवेयुः। परह्यः रात्रौ अष्टवादने राष्ट्रजनतामभिसंबोधयन् प्रधानमन्त्री नरेन्द्रमोदीवरर्यः एवं निरदिशत्। राज्यशासकाः अपि निर्देशमेनं शिरसावहन् स्वकीयान् जनान् तदर्थं प्रैरयत्। कोविद् प्रतिरोधार्थम् अनिशं प्रयतमानान् स्वास्थ्यविभागकर्मकरान् अभिवादयितुम् अद्य सायं पञ्चवादने सर्वे स्वकीयेषु गृहेष्वेव तिष्ठन् हस्तताडनेन घण्डानादनेन वा अभिवाद्यमर्पयन्तु।

विविधानि राष्ट्राणि स्वकीयान् जनान् प्रतिरोधमार्गस्य भागत्वेन सम्पर्कनिरोधार्थं प्रेरयन्ति। अनेन एष्या भूखण्डे यूरोप् भूखण्डे अमेरिकायां केषुचन राज्येषुु च जनाः गृहेभ्यो बहिर्गन्तुुं अशसक्ताः भवन्ति। १०० कोटि जनाः एवं कष्टमनुभवन्तीति आवेद्यतते।

Leave a Reply

Your email address will not be published. Required fields are marked *