Monthly Archives: July 2019

वर्षा दृष्टिपथाद् गता – 20-07-2019

 

नूतना समस्या –

“वर्षा दृष्टिपथाद् गता”

ഒന്നാംസ്ഥാനം

ആർഷഭാരതരാജ്യേസ്മിൻ
കർഷകാ: ദു:ഖിതാ:ഭൃശം
ഹർഷാഭാവസ്യ ഹേതുസ്തു
വർഷാ ദൃഷ്ടിപഥാത് ഗതാ:

Narayanan N

“അഭിനന്ദനങ്ങള്‍”

 

*मातृकम्- 2019* पालक्काट् नगरे सुसम्पन्नम्।

पालक्काट् –  केरलासंस्कृताध्यापक फेडरेषन् संस्थायाः मातृकं 2019 राज्यस्तरीयः वनितासंगमकार्यक्रमः पालक्काट् कर्णकयम्मन् उच्चतरविद्यालये 2019 जूलै 13 दिनाङ्के प्राचलत् ।पालक्काट् जिल्लापञ्चायत्त् सदस्या संस्कृतशिक्षिका श्रीमती श्रीजा महाभागा अध्यक्षपदं अलञ्चकार । पालक्काट् जिल्लापञ्चायत्त् अध्यक्षा Adv (न्यायवदी) के शान्तकुमारी उद्घाटनमकरोत् ।भूतपूर्वः विद्याभारती-देशीयाद्ध्यक्षः पण्डितरत्नं डो पि के माधवन् महोदयः अनुग्रहभाषणमकरोत्। यूत्ओलिंपिक्स् प्रतिभा कुमारि जे विष्णुप्रिय़ा कार्यक्रमे अनुमोदिता ।

     “स्त्रीशाक्तीकरणं संस्कृतं च”इतिविषये पालक्काट् भारतीय विद्यानिकेतन् शिक्षाशास्त्री कलालयस्य प्राचार्या डो पि सि वि रेणुका प्रबन्धं प्रास्तौत्। मध्याह्नसांस्कृतिकसदसि संस्कृतशिक्षिका श्रीमती नीना वारियर् वर्यया अष्टपदी प्रस्तुतीकृता ।समापनसत्रे सि पि सनल् चन्द्रस्य अध्यक्षतायां श्री रमेश् नम्पीशन् महोदयः संघटनासन्देशं दत्तवान् ।
पि.जि. अजित् प्रसाद् , डो सिपि षैलजा , यु कैलास् मणि , वि.के. राजेष् , के के राजेष् ,सुजाता , राधामणि, प्रसन्ना , प्रभृतयः स्वीयानभिमतान् प्रकटितवन्तः ।प्राथमिकस्तरे संस्कृतशिक्षणं कार्यक्षमं कर्तुं , छात्राणां गणनानुसारं शिक्षकनियुक्तिं प्रस्तुतीकृत्य “पठेत् संस्कृतं शिक्षकं दद्यात्” इति मुद्रागीतं उन्नमय्य प्रवृत्ते मेलने 300 अधिकाः संस्कृतशिक्षिका शिक्षकाः भागभाजः अभवन् ।

PRASNOTHARAM – 20-07-2019

 

प्रश्नोत्तरम्।

 

 

 

 

  1. सः ध्यानं ——–। (क) करोति (ख) करोषि  (ग) करोमि
  2. ते अध्यापनं न ——–। (क) कुर्मः  (ख) कुरुथ  (ग) कुर्वन्ति
  3. त्वं ध्यानं ———। (क) करोति (ख) करोषि  (ग) करोमि
  4. भवत्यः मननं  ——-। (क) कुर्मः (ख) कुर्वन्ति (ग) कुरुथ
  5. यूयं पाकं ——–। (क) कुरुथ  (ख) कुर्वन्ति  (ग)कुर्मः 
  6. किं युवां स्वच्छतां ———। (क) कुरुथः  (ख) कुरुतः (ग) कुर्वः
  7. आवां मार्जनं ———। (क) कुरुतः (ख) कुर्वः (ग) कुरुथः
  8. एतौ भजनं ———-। (क) कुरुतः (ख) कुरुथः (ग) कुर्वः
  9. भवती प्रक्षालनं ———–। (क) करोति (ख) करोषि  (ग) करोमि
  10. वयं किं ———। (क) कुर्वन्ति  (ख) कुरुथ  (ग) कुर्मः

ഈയാഴ്ചയിലെ വിജയി

KRISHNAPRIYA B

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • Krishnapriya B
  • Maya P R
  • Dawn Jose
  • Anjana M S
  • Revathy K M

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

उच्चतरमाध्यमिकस्तरीयेभ्यः कृपाङ्कदानम्- आवेदनपत्रसमर्पणाय एस्.सी.इ.आर्.टी. संस्थां न्ययुङ्क्त।

तिरुवनन्तपुरम्- उच्चतरमाध्यमिकछात्रेभ्यः कृपाङ्कदानमनुबन्ध्य सर्वकारीयनिर्णयः चतुर्मासाभ्यन्तरे प्रकाशनीयः इति उच्चन्यायालयस्य आदेशानुसारं तेभ्यो कृपाङ्कदानरीतेः परिष्करणसम्बन्धि आवेदनपत्रं समर्पयितुं सर्वकारः राज्य-शैक्षिकानुसन्धानप्रशिक्षणपरिषदं न्ययुङ्क्त। पाठ्येतरप्रवर्तनाय कृपाङ्क‌ः आवश्यक इति सर्वकारस्य मतिः। अतः एतत्सम्बन्धि आवेदनं त्वरितं दातव्यमिति सर्वकारः संस्थामसूचयत्।

     इतरराज्येभ्यः इतरसंस्थाभ्यश्च केरलस्य उत्कर्ष एव शिक्षामण्डले विलसति। पाठ्येतरः सामाजिकश्च व्यवहारः शिक्षाक्षेत्रे अवश्यंभावी। एतेषां निर्वहणार्थं छात्राणाम् अधिकः समयः आवश्यकः। एतस्य समीकरणायैव कृपाङ्कः आयोजितः। इतरेषु राज्येषु कृपाङ्कः पृथक् दीयते। अतः राष्ट्रियतले क्रमनिर्णयाय एष न परिगण्यते। केरलेषु कृपाङ्कः परीक्षाङ्कैः संयोज्य दीयते इत्यतः मत्सरेषु केरलीयछात्राणाम् अधिकं प्रामुख्यं सम्भवतीति बह्यः संस्थाः अभिप्रयन्ति स्म। अत एव तस्याः रीतेः संशोधनधुरां राज्यशैक्षिकानुसन्धानप्रशिक्षणपरिषधि निधाय सर्वकारः आदेशमदात्।

संस्कृतदिनसमारोहस्य भागत्वेन अध्यापकानां कृते साहित्यरचनामत्सरः।

तिरुवनन्तपुरम्- केरल-सार्वजनीनशिक्षाविभागः प्रतिवर्षं संस्कृतसप्ताहमभिलक्ष्य अध्यापकानां कृते संस्कृतसाहित्यरचनाप्रतियोगिताः आयोजयति। कथा, कविता उपन्यासः, समस्यापूरणम् इत्येतेषां रचनामत्सरः  एतावत्पर्यन्तं समायोजितः आसीत्। अस्मिन् वर्षे एतैः मत्सरैः सह पटकथारचनामत्सरः अपि समायोजितो वर्तते। गतवर्षादारभ्य ह्रस्वचलच्चित्रमत्सरः अपि आयोजितः। एतत् अध्यापकैः छात्रैः वा निर्मितं ह्रस्वचलच्चित्रं भवितुमर्हति। अस्मिन् वर्षे एतेषां विषयः इदानीमुद्घोषितः।

विषयाः एवम्-

उपन्यासः     –  नवकेरलम् नवजीवनम्।

कथा           –  इच्छाशक्तिः।

कविता        –  जालकदृश्यम्।

समस्या       –  जनो जलं पातुमहो प्रगच्छति।

    पटकथारचना, ह्रस्वचलच्चित्रम् इत्येतयोः विषयनिबन्धना नास्ति। स्वतन्त्राविष्काराय अवकाशः अस्ति। ह्रस्वचलच्चित्रस्य दैर्घ्यं दशनिमेषतः पञ्चदशनिमेषपर्यन्तं भवितुमर्हति।

     एताः प्रतियोगिताः विद्याभ्यासमण्डलानुसारं समायोज्य प्रथम-द्वितीय-तृतीयस्थानं प्राप्ताः रचनाः एव राज्यस्तरीयप्रतियोगितार्थं प्रेषणीयाः। एताः रचनाः शिक्षामण्डलाधिकारिणः साक्ष्यपत्रेणसाकं पत्रालयद्वारा प्रेषणीयाः। सङ्केतः एवम्-

 डो. टी.डी. सुनीतीदेवी,

विशिष्टाधिकारिणी (संस्कृतम्),

सार्वजनीन-शिक्षानिदेशकस्य कार्यालयम्,

जगती, तिरुवनन्तपुरम्।

2019 आगस्त् मासस्य दशमदिनाङ्कः एव रचनास्वीकारस्य अन्तिमतिथिः। एतदनन्तरं प्राप्यमानाः रचनाः प्रतियोगितायै न परिगण्यन्ते। एतत् सार्वजनीनशिक्षाविभागस्य पी.एल्.2/18303/2019/डी.जी.इ. परिपत्रानुसारं विज्ञापितं भवति।

 

 

 

 

केरले प्राथमिकशिक्षायाः घटनापरिवर्तनाय उच्चन्यायालयस्य आदेशः।

तिरुवनन्तपुरम्- केरले प्रापम्भिकशिक्षायाः घटना केन्द्रीय-शिक्षाधिकारनियमानुसारेण पर्वर्तनीयमिति उच्चन्यायालयस्य आदेशः। धनादत्तनिजीयविद्यालयप्रबन्धकसमितेः आवेदनम् अभिलक्ष्यैव न्यायालयविधिः।

     अधुना केरल शिक्षा नियमानुसारमेव विद्यालयानां घटना वर्तते। तदनुसारं प्रथमकक्ष्यातः चतुर्थकक्ष्यापर्यन्तं प्रारम्भशिक्षा, पञ्चतः सप्तमपर्यन्तं माध्यमिकशिक्षा, अष्टमतः दशमपर्यन्तं उच्चविद्यालयश्च।

     केन्द्रिय-शिक्षाधिकारनियमानुसारं प्रथमतः पञचमकक्ष्यापर्यन्तं प्रारम्भघट्टः षष्ठतः अष्टमपर्यन्तं माध्यमिकघट्टश्च भवति। एतदेव उच्चन्यायालयेन आदिष्टम्।

PRASNOTHARAM – 13-07-2019

 

प्रश्नोत्तरम्।

 

 

 

 

  1. एतौ छात्रौ ——–। (क) पठन्ति  (ख) पठतः  (ग) पठथः
  2. ते कन्ये  ———। (क) गच्छथः  (ख) गच्छन्ति (ग) गच्छतः
  3. वानराः ———-। (क) खादन्ति  (ख) खादामः (ग) खादत
  4. वयं मनुष्याः ———-। (क) वदावः  (ख) वदथ  (ग) वदामः 
  5. यूयं शिष्याः  ———-। (क) पृच्छथ  (ख) पृच्छन्ति (ग) पृच्छामः
  6. आवाम् अध्यापकौ ———–। (क) पाठयामः  (ख) पाठयथः (ग) पाठयावः
  7. तौ मयूरौ ———-। (क) नृत्यथः  (ख) नृत्यतः (ग) नृत्यावः 
  8. एते नार्यौ  ———। (क) हसति  (ख) हसन्ति  (ग) हसतः
  9. तानि पुष्पाणि ———–। (क)विकसामः  (ख) विकसन्ति  (ग) विकसति
  10. भवत्यः घटीं  ———-। (क) पश्यामः  (ख) पश्यन्ति  (ग) पश्यथ

ഈയാഴ്ചയിലെ വിജയി

MAYA P R

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • MAYA P R
  • ADIDEV C S
  • ANANTHU P C
  • DAWN JOSE
  • NILEENA SIVADAS

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

जीवनं सुखदं भवेत् – 13-07-2019

 

नूतना समस्या –

“जीवनं सुखदं भवेत्”

ഒന്നാംസ്ഥാനം

സർവേഷാം ജീവജാലാനാം
സാഹായ്യകരണേ സദാ
ബദ്ധശ്രദ്ധാ ഭവാമശ്ചേത്
ജീവനം സുഖദം ഭവേത്‌.

BHASKARAN N K

“അഭിനന്ദനങ്ങള്‍”

 

केन्द्रसर्वकारेण परिगृहीतेषु पञ्चसु ग्रामेषु त्रिशूर् मण्डलस्थः अटाट् ग्रामःअपि वर्तते।

तृशूर्- केन्द्रीय मानवशेषीसंसाधनमन्त्रालयस्य निर्देशानुसारं राष्ट्रिय-संस्कृत-संस्थानेन पञ्च ग्रामाः परिगृहीताः। तेषु तृशूर् मण्डलस्थः अटाट् ग्रामोप्यस्ति। अनेन राष्ट्रियतले अटाट् ग्रामस्य प्रशस्तिः भृशं वर्धते।

राष्ट्रिय-संस्कृत-संस्थानम् एका कल्पितसर्वकलाशाला भवति। संस्कृस्य प्रचारमभिलक्ष्यैव एषः परिग्रहः।

संस्थानस्यास्य प्रान्तीयपरिसरः अटाट् समीपस्थे पुरनाट्टुकरा ग्रामे प्रवर्तमानः वर्तते। पी.टी. कुर्याक्कोस् नामकेन संस्कृतपण्डितैन पावरट्टी ग्रामे संस्थापितः संस्कृतविद्यालय एव अधुना पल्लवितः कुसुमितश्च सन् पुरनाट्टिकरायां विलसति
जातिधर्मभेदं विना सर्वेषां संस्कृताध्ययनं लक्ष्यीकृत्य १९०९ तमे वर्षे स्वस्य गृहे साहित्यदीपिका संस्कृतविद्यालयः पुनः पावरट्टीमध्ये प्रवर्तनं व्यापयन् स्थितः अभवत्। पुनः सर्वकारेण अङ्गीकृतः अयं केन्द्रिय-संस्कृतविद्यालयनाम्ना प्रथितः। पुनः राष्ट्रिय-संस्कृत-संस्थानस्य प्रान्तीयपरिसरत्वेन अधुना प्रवर्तते।

अनेन परिग्रहेण संस्कृतग्रामः इति पदव्याम् अटाट् ग्रामः विख्यातो भविता।

पाठपुस्तके द्रुतप्रतिस्पन्दकूटसंख्यारीतिः आविष्करोति।

तिरुवनन्तपुरम्- राज्ये ऐदम्प्राथम्येन विद्यालयीयपाठपुस्तकानि पठितुं द्रष्टुं श्रोतुं च सौविध्यमाविष्करोति शिक्षाविभागः। एतदर्थं द्रुतप्रतिसपन्दगूढसंख्या रीतिः पाठपुस्तकेषु आयोजिता। भारते राज्यान्तरे इतः पर्यन्तं एतादृशी रीतिः न आविष्कृता इति शिक्षामन्त्री रवीन्द्रनाथवर्यः अवदत्। एकस्य पेशलदूरवाण्याः साहाय्येन द्रुतप्रतिस्पन्दसंख्यां प्रमाणीकृत्य दृश्यानि कक्ष्यायां पेशलफलके सूचयितुं शक्यते। अनेन अमूर्तस्यापि भावस्य मूर्तरूपेण अवतारणं शक्यं स्यात्।