*मातृकम्- 2019* पालक्काट् नगरे सुसम्पन्नम्।

पालक्काट् –  केरलासंस्कृताध्यापक फेडरेषन् संस्थायाः मातृकं 2019 राज्यस्तरीयः वनितासंगमकार्यक्रमः पालक्काट् कर्णकयम्मन् उच्चतरविद्यालये 2019 जूलै 13 दिनाङ्के प्राचलत् ।पालक्काट् जिल्लापञ्चायत्त् सदस्या संस्कृतशिक्षिका श्रीमती श्रीजा महाभागा अध्यक्षपदं अलञ्चकार । पालक्काट् जिल्लापञ्चायत्त् अध्यक्षा Adv (न्यायवदी) के शान्तकुमारी उद्घाटनमकरोत् ।भूतपूर्वः विद्याभारती-देशीयाद्ध्यक्षः पण्डितरत्नं डो पि के माधवन् महोदयः अनुग्रहभाषणमकरोत्। यूत्ओलिंपिक्स् प्रतिभा कुमारि जे विष्णुप्रिय़ा कार्यक्रमे अनुमोदिता ।

     “स्त्रीशाक्तीकरणं संस्कृतं च”इतिविषये पालक्काट् भारतीय विद्यानिकेतन् शिक्षाशास्त्री कलालयस्य प्राचार्या डो पि सि वि रेणुका प्रबन्धं प्रास्तौत्। मध्याह्नसांस्कृतिकसदसि संस्कृतशिक्षिका श्रीमती नीना वारियर् वर्यया अष्टपदी प्रस्तुतीकृता ।समापनसत्रे सि पि सनल् चन्द्रस्य अध्यक्षतायां श्री रमेश् नम्पीशन् महोदयः संघटनासन्देशं दत्तवान् ।
पि.जि. अजित् प्रसाद् , डो सिपि षैलजा , यु कैलास् मणि , वि.के. राजेष् , के के राजेष् ,सुजाता , राधामणि, प्रसन्ना , प्रभृतयः स्वीयानभिमतान् प्रकटितवन्तः ।प्राथमिकस्तरे संस्कृतशिक्षणं कार्यक्षमं कर्तुं , छात्राणां गणनानुसारं शिक्षकनियुक्तिं प्रस्तुतीकृत्य “पठेत् संस्कृतं शिक्षकं दद्यात्” इति मुद्रागीतं उन्नमय्य प्रवृत्ते मेलने 300 अधिकाः संस्कृतशिक्षिका शिक्षकाः भागभाजः अभवन् ।

Leave a Reply

Your email address will not be published. Required fields are marked *