Monthly Archives: July 2019

स्वच्छ भारत् अभियानस्य नाम सुन्दर भारत् इति परिवर्तयति।

नवदिल्ली-  स्वच्छभारत्, बेठी बच्चावो, बेठी पठावो प्रभृत्यः प्रथम-मोदीसर्कारस्य योजनाः सुन्दर भारत्, बद्लाव इत्यादिनामभिः प्रसिद्धाः भविष्यन्तीति आर्थिकसर्वेक्षणं सूचयति। जनानामे आर्थिकनिर्णयान् मनःशास्त्रतले वैकारिकतलले सास्कतिकतले च स्थित्वा पठनविधेयान् करोतीति कारणेनैव नामपरिवर्तनम्। त्वरितगतिरूपिणे आर्थिकप्रगतये चीनाराष्ट्रम् पूर्णतया मातकां कर्तुमपि सर्वेक्षणं उपदिशति।

     पौराणिकभारते स्त्रियः बहुमानिताः इति गार्गि मैत्रेयीप्रभतीः उदाहत्य सर्वेक्षणं वदति। लिङ्गसमत्वाय नूतनं मानदण्डं सविशदं विवृणुत, तत्स्थिरीकरणार्थं श्रद्धां कुरुत अनुस्यूतं तत् प्रयोगमानय इत्येव अस्य दौत्यस्य  लक्ष्यम्

रत्नगिरिमण्डले जलबन्धभङ्गेन 22 जनाः तिरोभूताः, 12 गृहाणि वाहितानि।

मुम्बै- महाराष्ट्राराज्ये रत्नगिरि मण्डले तिवारि जलबन्धः भग्नः अभवत्। अस्यां दुर्घटनायां 12 गृहाणि आप्लावितानि। 22 जनाः तिरोभूताश्च। तिरोभूतेषु द्वयोः मृतदेहो लब्धः। राष्ट्रिय-दूरन्तनिवारणसेना दुरन्तमेखलां प्रस्थिता।

     प्रलयसमानः अन्तरिक्षो भवति रत्नगिर्याम्। कुजवासरे रात्रौ दशवादने अतिशक्ता वृष्टिरजायत। तदानीमेव जलबन्धभङ्गः अजायत। जलबन्धस्थो जलौघः समीपस्थान् ग्रामान् आप्लावितः। रत्नगिरिमण्डले चिप्लुन् तालूख् मेखलायामेव 12 गृहाणि प्रवाहितानि अभवन्। कुजवासरे प्रातः एव जलबन्धे छिद्रः अदृश्यत। तदानीं यूक्तो जाग्रता निर्देषः जनेभ्यो न दत्तः।

     गतेषु पञ्चसु दिनेषु महाराष्ट्रा राज्ये   घोरा वृष्टिरजायत। अनेन महान् नष्टोपि राज्ये समजायत।