Monthly Archives: May 2019

PRASNOTHARAM- 25-05-2019

 

प्रश्नोत्तरम्।

 

Last date: 25-05-2019

 

 

  1. वेदाङ्गेषु मुखं ——- स्मृतम्।(क) शिक्षा (ख) व्याकरणम्  (ग) कल्पम्
  2. पाणिनेः महाकाव्यं किम्? (क) जाम्बवतीजयम् (ख)बालचरितम् (ग) स्वर्गारोहणम्
  3. गीतं कस्मिन् वेदे अन्तर्भवति?(क) ऋग्वेदे (ख) अथर्ववेदे (ग) सामवेदे
  4. गच्छति पुरः शरीरं धावति पश्चादस्थितं———।(क) हरिणः  (ख) चेतः  (ग) वायुः
  5. म्रभ्नैर्याणां त्रयेण त्रिभिनियतियुता——–। (क)स्रग्धरा  (ख)अनुष्टुप् (ग) मन्दाक्रान्ता
  6. इन्द्रस्य सारथिः  ——। (क) माधवः (ख) शाण्डिल्यः (ग) मातलिः
  7. शक्तिभद्रस्य देशः कुत्र ? (क) काश्मीरः (ख) कर्णाटकः  (ग) केरलम्
  8. मालविकाग्निमित्रस्य प्रणेता कः?(क) कालिदासः (ख)शूद्रकः (ग) भासः
  9. किरातार्जुनीयमहाकाव्ये कति सर्गाः सम्ति? (क) १६  (ख) १७  (ग) १८
  10. ——मेघे  गतं वयः । (क) माघे  (ख) नैषधे (ग) रघुवंशे

ശരിയുത്തരങ്ങള്‍

  1.  (ഖ) വ്യാകരണം
  2. (ക) ജാംബവതീജയം
  3. (ഗ) സാമവേദേ
  4. (ഖ) ചേതഃ
  5. (ക) സ്രഗ്ധരാ
  6. (ഗ) മാതലിഃ
  7. (ഗ) കേരളം
  8. (ക) കാളിദാസഃ
  9. (ഗ) 18
  10. (ക) മാഘേ

ഈയാഴ്ചയിലെ വിജയി

ANJANA M S (7ശരിയുത്തരം)

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

नवीनपरम्परावित्तकोशस्य आक्सिस् बेन्क् इत्यस्य ए.टि.एम् यन्त्रेषु संस्कृतभाषा अपि।

नवदिल्ली – स्वयंप्रेरितदायकयन्त्रस्य (ए.टि.एम्) उपयोगः अद्य सर्वसाधारणः भवति। धनस्य आवश्यकता यदा भवति तदा ए.टि.एम् समुपगम्य पत्रं सज्जीकृत्य स्वकीयायां भर्तिकायां यावद्धनमस्ति तावत् निबन्धनानुसारं स्वीकर्तुं शक्यते इति तत्र विशेषः। चोरभयं विना धनविनियोगः अनेन साध्यः भवति।

     अस्मिन् यन्त्रे एतावत्पर्यन्तं  भाषात्रयमेव उपयोक्तुं शक्यमासीत्। आङ्गलभाषा, राष्ट्रभाषा तथा प्रादेशिकभाषा च। अधुना आक्सिस् बेन्क् इति नवीनपरम्परावित्तकोशस्य ए.टि.एम् यन्त्रेषु संस्कृतभाषा अपि आयोजिता वर्तते। उपयोक्तारः भाषाचयनावसरेषु संस्कतभाषामपि चेतुं प्रभवन्ति। वित्तकोशस्य एषः निर्णयः संस्कृतप्रेमिभिः नितरां स्वीकृतः।

पुल्वामा स्थले सङ्घर्षः, एकः सैनिकः द्वौ अतङ्कवादिनौ च मारिताः।

पुल्वामा- जम्मु-काश्मीर् सुरक्षासेनया सह पुनरपि भीकरवादिनां सङ्घर्षः अजायत। सङ्घर्षे एकः सैनिकः मृतः, द्वौ भीकरौ च मारितौ। बहवः सैनिकाः कश्चन ग्रामीणश्च रुग्णाः अभवन्। द्वौ भीकरौ सजीवं गृहीतौ च।

     पुल्वामा जिल्लायां दलिपोर मेखलायां प्रातः सङ्घर्षः अजायत। अधुनापि द्वौ पक्षौ गोलिकाप्रहारे निरतौ स्तः। प्रदेशेस्मिन् आन्तरजालसेवा तात्कालिकेन स्थगिता वर्तते।

अद्य पूरमहोत्सवः। तृशूर् नगरं पूरलहर्यां निमग्नम्।

तृशूर्-  इतः परं ३० होराः अविरामं पूरप्रयाणाय भवन्ति। सोमवासरे प्रातरारभ्य कुजवासरे मध्याह्नं यावत् सर्वे पन्थाः विश्वस्य अपूर्वसौन्दर्यसंगमस्थलाः जायन्ते। रविवासरे पूरविलम्बरस्य अलङ्कारप्रदर्शनस्य च समये स्वयमानन्दनिर्वृतिम् अनुभवितुं जनसहस्राणि आगतानि। तेक्किन्काट् स्थले आरोग्यपरिशोधनानन्तरं करिवरान् पङ्क्तौ विन्यस्य प्रादर्शयत्। एतत् हस्तिप्रेमिणां आस्वाद्यकरमभवत्। रात्रौ दीपालङ्कारद्युतिना क्षेत्रगोपुराणि प्रदक्षिणपथं स्वप्ननगरीमकुर्वन्।

     मेषमासे पूर्वाषाढनक्षत्रे प्रसिद्धं तृशूर् पूरमाचरति। अष्टघटकदेशानां पुराघोषः पूरनगरम् आवेशोज्वलं कारयति। पारमेक्काव् देवस्थानं तथा तिरुवम्पाटिदेवस्थानं च पूरनगरे करिवरान् मुखामुखं विन्यस्य छत्रपरिवर्तनादीन् आचारान् निर्वक्ष्यतः। अन्ते पटह-स्फोटकादीनां ध्वनिना साकं पूराघोषस्य समापनं च भवति। विश्वप्रसिद्धमिमं पूराघोषं साक्षात्कर्तुं देशविदेशेभ्यः सहस्रपरिमिताः जनाः तृशूर्नगरं सम्प्राप्ताः सन्ति।

जयिनः सन्तु सज्जनाः – 18-05-2019

 

नूतना समस्या –

“जयिनः सन्तु सज्जनाः”

ഒന്നാംസ്ഥാനം

സജ്ജനാൻപ്രതി സർവ്വേഷാം
ദുർജനാനാംപരാക്രമ:
ദൃശ്യതേ കിന്തു സർവ്വത്ര
ജയിന: സന്തു സജ്ജനാഃ

Narayanan N

“അഭിനന്ദനങ്ങള്‍”

 

PRASNOTHARAM – 18-05-2019

 

प्रश्नोत्तरम्।

 

 

 

 

 

  1. “यावज्जीवेत् सुखं जीवेत् ” (क) नैय्यायिकः (ख) सांख्यः (ग) चार्वाकः
  2. अमरशक्तिनामको नृपः  —–। (क) पञ्चतन्त्रम् (ख) जातकमाला  (ग) तन्त्रशास्त्रम्
  3. पुराणानां संख्या —–। (क) १७  (ख) १८  (ग) १९
  4. जयदेवकृतिरेषा——। (क) नारायणीयम् (ख) स्तोत्रमाला (ग) गीतागोविन्दम्
  5. राजतरङ्गिण्याः प्रणेता ——-। (क) कल्हणः  (ख) भारविः  (ग) क्षेमेन्द्रः
  6. ” अग्निमीले पुरोहितम्  ” मन्त्र एषः। (क) ऋग्वेदस्य  (ख) यजुर्वेदस्य (ग) सामवेदस्य
  7. बुद्धचरितं कस्य ? (क) अश्वघोषस्य  (ख) श्रीहर्षस्य (ग) बाणस्य
  8. ” अजविलापः ” रघुवंशस्य कस्मिन् सर्गे भवति ? (क)सप्तमे (ख) अष्टमे (ग) नवमे
  9. जानकीहरणं कस्य ? (क) कुमारदासस्य  (ख) रत्नाकरस्य (ग) हरिश्चन्द्रस्य 
  10. जरामरणकृं ——। (क) सुखं  (ख) दुःखं  (ग) अहङ्कारः

ഈയാഴ്ചയിലെ വിജയി

Navaneeth Johnson

“അഭിനന്ദനങ്ങള്‍”

10ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • Navaneeth Johnson
  • Adidev C S
  • Mrinal Jayadevan
  • Athira Damodaran
  • Adwaith C S

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

उपजीवनोपकरस्य ऋणशेषं मेय् १५ दिनाङ्कात् प्रभृति दास्यति।- वित्तमन्त्री।

तिरुवनन्तपुरम्- सर्वकारीणकर्मकरेभ्यः अध्यापकेभ्यश्च देयः उपजावनोपकर-ऋणशेषः धनरूपेणैव दीयते इति सर्वकारस्य वाग्दानं पालयति। आगामिनि १५ दिनाङ्कात् प्रभृति दिनत्रयेण वेतनवितरणक्रमेण ऋणशेषं धनरूपेणैव दास्यति। एतदर्थं ११०० कोटिरूप्यकाणि आवश्यकानि।

वृत्तिविरतानां क्षामाश्वास-ऋणशेषः धनरूपेणैव तेषां भर्तिकायां निक्षिप्तः। एतदर्थं ६०३ कोटिरूप्यकाणि व्ययीकृतानि।

२०१८ जनुवरि १ तः ऋणशेषं प्राप्तः २ शतमितं तथा जूलै तः ऋणशेषं प्राप्ताः ३ शतमितं च उपजीवनोपकरं एप्रिल् मासे वेतनेन सहैव अदात्। तयोः ऋणशेष एवाधुना धनरूपेणैव दीयते।

लोकसभानिर्वाचनस्य भूमिकायां विभवसमाहरणे केन्द्रसर्वकारेण कानिचन नियन्त्रणानि आनीतानि। अतः अस्य वितरणार्थं १५ दिनानि अतीतानि। अनेन ऋणशेष धनरूपेणैव दीयते इति सर्वकारस्य धनादेशनिर्देशः पालितः।

अध्यापकेन प्लस् टू परीक्षा लिखिता, अस्यां घटनायां निस्संगतया विद्यालयाधिकारिणः।

कोषिक्कोट् – मुक्कं नीलेश्वरं सर्वकारीय उच्चतरविद्यालये अध्यापकः छात्राणां कृते परीक्षामलिखत्। अस्यां घटनायां विद्यालयाधिकारिणः अध्यापकं कट्वालोचयन्। अस्मिन् विद्यालये अध्यापकः भवति निषाद् मुहम्मद्। स स्वमेधया एव एनां प्रवृत्तिं कृतवान् न तु परप्रेरणया इति विद्यालयाधिकारिण‌ः वदन्ति।

विद्यालये शतप्रतिशतं विजयं प्रतीक्ष्य अन्यैरध्यापकैः समालोच्य एव एतां प्रवृत्तिं स अकरोदिति पूर्वं आरोपणमासीत्। तदेव अधुना अन्यैरध्यापकैः निरस्तम्। सम्भवेन सम्बग्धौ द्वौ छात्रौ आर्थिकपरतया पश्चात्पङ्क्तौ भवतः।

परीक्षायाम् अतिरिक्त मुख्याधिकारी आसीत् निषाद् मुहम्मद्। स दशवर्षाणि यावत् अस्मिन्नेव विद्यालये कर्म करोति। सम्भवेस्मिन् रक्षिदलान्वेषणं प्रचलदस्ति। अन्वेषणस्य भागत्वेन त्रयः अध्यापकाः विद्यालयात् तात्कालिकतया निष्कासिताः।

उच्चतरमाध्यमिकपरीक्षाफलं प्रख्यापितम्, ८४.३३ प्रतिशतं विजयः।

तिरुवनन्तपुपम्- अस्य वर्षस्य उच्चतरमाध्यमिकपरीक्षाफलं घोषितम्। एच्.एस्.एस्, वी.एच्.एस्, एस्, ए.एच्.एस्.एस्. परीक्षाणां फलानि सममेव घोषितानि। उच्चतरमाध्यमिकस्तरे ८४.३३ प्रतिशतं छात्राः उपरिपठनाय अर्हाः अभवन्।

     स्कोल् केरला इति मुक्तविद्यालयसंस्थाद्वारा पञ्जीकृतेषु २५६१० छात्राः विजयिन‌ः अभवन्। तत्र ४३.४८ प्रतिशतमेव विजय‌ः।

     सर्वकारीय विद्यालयविभागे १५५४८७ छात्रेषु १२९११८ छात्राः, धनादत्तविद्यालयविभागे १८७२९२ छात्रेषु १६१७५१ छात्राः च विजयिन‌ः अभवन्। निजीयविद्यालयविभागे २६२३५ छात्रेषु २०२८९ छात्राः विजयिनः अभवन्। १२ सर्वकारीय विद्यालयाः २५ धनादत्तविद्यालयाः ३४ निजीयविद्यालयाश्च सम्पूर्णविजयमवापुः।

नाट्यसत्रम्। संस्कृतचलनचित्रशिल्पशाला ।

तृश्शूर्- संस्कृताध्यापकः परिस्थिति कार्यकर्ता च आसीत् श्री अशोकन् पुरनाट्टुकरा महोदयः। तस्य स्मरणार्थं लैव् सान्स्क्रिट् संस्थायाः नेतृत्वे संस्कृतचलनचित्रशिल्पशाला प्रचलिष्यति।मेय् नवम्यां तृश्शूर् साहित्याक्काटमी चङ्मबुषा बृहत्प्रकोष्ठे प्रातः सार्धनववादने शिल्पशाला आरप्स्यते।कथा पटकथा संभाषणं निदेशनं इत्यादि क्षेत्रेषु विद्वांसः कक्ष्यां नेष्यन्ति।कालटी संस्कृतविश्वविद्यालयस्य तिरूर् प्रादेशिक केन्द्रस्य तथा भारतमुद्रा संस्कृतपत्रिकायाः च साहाय्येन एषा शिल्पशाला भविष्यति। तिरूर् प्रादेशिक केन्द्रस्य साहित्यविभागाध्यक्षा डा. जयन्ती शिल्पशालायाः उद्घाटनं करिष्यति।चलनचित्र निदेशकः मोहरली पोयिलुङ्गल् इस्मयिल् मुख्यातिथिः भविष्यति।डा. महेष् बाबु एस् एन् शिल्पशालायाः नेतृत्वं करिष्यति। उच्चतर माध्यमिक छात्राणां विशेष गणना भविष्यति।