Daily Archives: May 2, 2019

आगोलभीकराणां पट्टिकायां मसूद् असर्, अमेरिकायाः नयतन्त्रविजयः इति मैक् पाम्पियो।

वाषिङ्टऩ्- मसूद् असर् इति भीकरः आगोलभीकरत्वेन घोषितः इत्येतत् अमेरिकायाः नयतन्त्रविजय एवेति अमेरिका राज्यसचिवः मैक् पोम्पियो वर्यः अवदत्। मसूद् असरः भीकरपट्टिकायां अन्तर्भावनीयः इति प्रमेयः चीनाराष्ट्रेण एतावत्पर्यन्तं नानुकूलितः आसीत्। आधिकारिकप्रमाणान् परीक्ष्य बोध्यमभवदित्यतःइतःपरं प्रत्याक्षेपो न भविता इति चीनराष्ट्रेण विज्ञप्तम्। अतः एव अधुना आगोलभीकरघोषणा जाता।
जैय्षे मुहम्मद् इति भीकरसंघस्य नेता मसूद् असर् विषये अनुयोगं कृतेभ्यः सर्वेभ्यो अभिनन्दनानी व्याहृत्य मैक् पोम्पियो वर्यः इदमप्यवदत् यत् चिरकालं यावत् प्रतिपाल्यमानः अयं विजयः अमेरिकानयतन्त्रस्य विजय एवेति। अन्ताराष्ट्रसमाजस्य विजयः तद्वत् पश्चिमेष्यायां शान्तेः पदविन्यासश्च इत्यपि स ट्विट्टर् मध्ये सूचयामास।