Daily Archives: May 5, 2019
एस्.एस्.एल्.सी. परीक्षाफलं श्वः प्रकाशयिष्यति।
तिरुवनन्तपुरम्- अस्य वर्षस्य एस्.एस्.एल्.सी. परीक्षाफलं श्वः प्रकाशयिष्यति। टी.एच्.एस्.एल्.सी.,ए.एच्.एस्.एल्.सी. परीक्षयोः फलप्रख्यापनमपि अनेन सहैव सम्पत्स्यते। ४३५१४२ छात्राः अस्मिन् वर्षे परीक्षामलिखन्। मध्याह्ने द्विवादने शिक्षामन्त्री रवीन्द्रनाथवर्यः फलप्रख्यापनं विधास्यति।
एप्रिल् पञ्चमे दिने एव मूल्यनिर्णयं समारब्धम्। ५४ मूल्यनिर्णयकेन्द्रेषु घट्टत्रयोण मूल्यनिर्णयं प्रचलति स्म। एप्रल् २९ पर्यन्तं मूल्यनिर्णयमभवत्। पी.आर्.डी. लैव, कैट् संस्थायाः सफलं २०१९ इत्यादिषु मोबैल् आप् विद्यासु तथा शिक्षाविभागस्य सर्वेषु जालपुटेषु च परीक्षाफलमुपलभ्यते।
PRASNOTHARAM – 11-05-2019
प्रश्नोत्तरम्।
- कृष्णस्य समीपम्। (क) कृष्णसमीपम् (ख) सहकृष्णम् (ग) उपकृष्णम्
- ——— सङ्कल्पकम् ।(क) मनः (ख) हृदयः (ग) बुद्धिः
- वायवः ——। (क) पञ्च (ख) चत्वारः (ग) त्रीणि
- वेदाङ्गानि ——-। (क) पञ्च (ख) षड् (ग) सप्त
- रूपरहितस्पर्शवान् ——–।(क) जलम् (ख) आकाशः (ग) वायुः
- ” मृच्छकटिकम् ” इति नाटके नायकः कः? (क) चारुदत्तः (ख) उदयनः (ग) चाणक्यः
- ” शरीरमाद्यं खलु धर्मसाधनम् ” कस्मिन् काव्ये एवमुक्तम् ? (क) रघुवंशे (ख) किरातार्जुनीये (ग) कुमारसम्भवे
- बृहत्कथायाः प्रणेता कः ? (क) गुणाढ्यः (ख) सुबन्धुः (ग) बाणभट्टः
- वैशेषिकदर्शनम् । (क) जैमिनिः (ख) कणादः (ग) कपिलः
- शकुन्तलायाः माता का ? (क) मेनका (ख) गौतमी (ग) पार्वती
ഈയാഴ്ചയിലെ വിജയി
Amrutha C J
“അഭിനന്ദനങ്ങള്”
10 ശരിയുത്തരങ്ങള് അയച്ചവര്
- Amrutha C J
- Anumol C J
- Adwaith C S
- Sithara Alappuzha
- Sreeja Mumbai
- Adidev C S
“പങ്കെടുത്തവര്ക്കെല്ലാം അഭിനന്ദനങ്ങള്”














