Daily Archives: May 19, 2019

लोकसभानिर्वाचनम् अद्य समाप्तिमेति। अद्य प्रातरारभ्य मतदानार्थं महान् सम्मर्दः।

नवदिल्ली- सप्तदशतमायै लोकसभायै निर्वाचनम् अद्य समाप्तिमेति। तदर्थं मतदानं समारब्धम्। सप्त राज्यानि एकं केन्द्रप्रशासनप्रदेशश्चान्तर्भूय ५९ मण्डलेषु २०१९ लोकसभानिर्वाचनस्य अन्तिमघट्टे अद्य मतदानं भविष्यति। उत्तरप्रदेशे १३, पञ्चाबे १३, पश्चिमवंगे ९, बीहारे ८, झार्घण्डे ३, हिमाचलप्रदेशे ४ तथा चण्डीगडे च अद्य मददानं भवति।

     प्रधानमन्त्रिणः नरेन्द्रमोदिनः प्रतियोगितास्थले वाराणस्यां प्रथमहोरायां मतदानार्थं महान् सम्मर्दः अनुभूतः।

     दशकोटिमिताः जनाः ९१२ स्थानाशिनां भविष्यनिर्णेतारः भवन्ति अन्तिमे अस्मिन् घट्टे। अद्य सायं एक्सिट् पोल् फलं प्रकाशयिष्यति। मेय् २३ तमे दिनाङ्के एव फलप्रख्यापनं भवति।

PRASNOTHARAM- 25-05-2019

 

प्रश्नोत्तरम्।

 

Last date: 25-05-2019

 

 

  1. वेदाङ्गेषु मुखं ——- स्मृतम्।(क) शिक्षा (ख) व्याकरणम्  (ग) कल्पम्
  2. पाणिनेः महाकाव्यं किम्? (क) जाम्बवतीजयम् (ख)बालचरितम् (ग) स्वर्गारोहणम्
  3. गीतं कस्मिन् वेदे अन्तर्भवति?(क) ऋग्वेदे (ख) अथर्ववेदे (ग) सामवेदे
  4. गच्छति पुरः शरीरं धावति पश्चादस्थितं———।(क) हरिणः  (ख) चेतः  (ग) वायुः
  5. म्रभ्नैर्याणां त्रयेण त्रिभिनियतियुता——–। (क)स्रग्धरा  (ख)अनुष्टुप् (ग) मन्दाक्रान्ता
  6. इन्द्रस्य सारथिः  ——। (क) माधवः (ख) शाण्डिल्यः (ग) मातलिः
  7. शक्तिभद्रस्य देशः कुत्र ? (क) काश्मीरः (ख) कर्णाटकः  (ग) केरलम्
  8. मालविकाग्निमित्रस्य प्रणेता कः?(क) कालिदासः (ख)शूद्रकः (ग) भासः
  9. किरातार्जुनीयमहाकाव्ये कति सर्गाः सम्ति? (क) १६  (ख) १७  (ग) १८
  10. ——मेघे  गतं वयः । (क) माघे  (ख) नैषधे (ग) रघुवंशे

ശരിയുത്തരങ്ങള്‍

  1.  (ഖ) വ്യാകരണം
  2. (ക) ജാംബവതീജയം
  3. (ഗ) സാമവേദേ
  4. (ഖ) ചേതഃ
  5. (ക) സ്രഗ്ധരാ
  6. (ഗ) മാതലിഃ
  7. (ഗ) കേരളം
  8. (ക) കാളിദാസഃ
  9. (ഗ) 18
  10. (ക) മാഘേ

ഈയാഴ്ചയിലെ വിജയി

ANJANA M S (7ശരിയുത്തരം)

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”