Daily Archives: May 8, 2019

उच्चतरमाध्यमिकपरीक्षाफलं प्रख्यापितम्, ८४.३३ प्रतिशतं विजयः।

तिरुवनन्तपुपम्- अस्य वर्षस्य उच्चतरमाध्यमिकपरीक्षाफलं घोषितम्। एच्.एस्.एस्, वी.एच्.एस्, एस्, ए.एच्.एस्.एस्. परीक्षाणां फलानि सममेव घोषितानि। उच्चतरमाध्यमिकस्तरे ८४.३३ प्रतिशतं छात्राः उपरिपठनाय अर्हाः अभवन्।

     स्कोल् केरला इति मुक्तविद्यालयसंस्थाद्वारा पञ्जीकृतेषु २५६१० छात्राः विजयिन‌ः अभवन्। तत्र ४३.४८ प्रतिशतमेव विजय‌ः।

     सर्वकारीय विद्यालयविभागे १५५४८७ छात्रेषु १२९११८ छात्राः, धनादत्तविद्यालयविभागे १८७२९२ छात्रेषु १६१७५१ छात्राः च विजयिन‌ः अभवन्। निजीयविद्यालयविभागे २६२३५ छात्रेषु २०२८९ छात्राः विजयिनः अभवन्। १२ सर्वकारीय विद्यालयाः २५ धनादत्तविद्यालयाः ३४ निजीयविद्यालयाश्च सम्पूर्णविजयमवापुः।

नाट्यसत्रम्। संस्कृतचलनचित्रशिल्पशाला ।

तृश्शूर्- संस्कृताध्यापकः परिस्थिति कार्यकर्ता च आसीत् श्री अशोकन् पुरनाट्टुकरा महोदयः। तस्य स्मरणार्थं लैव् सान्स्क्रिट् संस्थायाः नेतृत्वे संस्कृतचलनचित्रशिल्पशाला प्रचलिष्यति।मेय् नवम्यां तृश्शूर् साहित्याक्काटमी चङ्मबुषा बृहत्प्रकोष्ठे प्रातः सार्धनववादने शिल्पशाला आरप्स्यते।कथा पटकथा संभाषणं निदेशनं इत्यादि क्षेत्रेषु विद्वांसः कक्ष्यां नेष्यन्ति।कालटी संस्कृतविश्वविद्यालयस्य तिरूर् प्रादेशिक केन्द्रस्य तथा भारतमुद्रा संस्कृतपत्रिकायाः च साहाय्येन एषा शिल्पशाला भविष्यति। तिरूर् प्रादेशिक केन्द्रस्य साहित्यविभागाध्यक्षा डा. जयन्ती शिल्पशालायाः उद्घाटनं करिष्यति।चलनचित्र निदेशकः मोहरली पोयिलुङ्गल् इस्मयिल् मुख्यातिथिः भविष्यति।डा. महेष् बाबु एस् एन् शिल्पशालायाः नेतृत्वं करिष्यति। उच्चतर माध्यमिक छात्राणां विशेष गणना भविष्यति।