उच्चतरमाध्यमिकपरीक्षाफलं प्रख्यापितम्, ८४.३३ प्रतिशतं विजयः।

तिरुवनन्तपुपम्- अस्य वर्षस्य उच्चतरमाध्यमिकपरीक्षाफलं घोषितम्। एच्.एस्.एस्, वी.एच्.एस्, एस्, ए.एच्.एस्.एस्. परीक्षाणां फलानि सममेव घोषितानि। उच्चतरमाध्यमिकस्तरे ८४.३३ प्रतिशतं छात्राः उपरिपठनाय अर्हाः अभवन्।

     स्कोल् केरला इति मुक्तविद्यालयसंस्थाद्वारा पञ्जीकृतेषु २५६१० छात्राः विजयिन‌ः अभवन्। तत्र ४३.४८ प्रतिशतमेव विजय‌ः।

     सर्वकारीय विद्यालयविभागे १५५४८७ छात्रेषु १२९११८ छात्राः, धनादत्तविद्यालयविभागे १८७२९२ छात्रेषु १६१७५१ छात्राः च विजयिन‌ः अभवन्। निजीयविद्यालयविभागे २६२३५ छात्रेषु २०२८९ छात्राः विजयिनः अभवन्। १२ सर्वकारीय विद्यालयाः २५ धनादत्तविद्यालयाः ३४ निजीयविद्यालयाश्च सम्पूर्णविजयमवापुः।

Leave a Reply

Your email address will not be published. Required fields are marked *