Daily Archives: May 10, 2019

अध्यापकेन प्लस् टू परीक्षा लिखिता, अस्यां घटनायां निस्संगतया विद्यालयाधिकारिणः।

कोषिक्कोट् – मुक्कं नीलेश्वरं सर्वकारीय उच्चतरविद्यालये अध्यापकः छात्राणां कृते परीक्षामलिखत्। अस्यां घटनायां विद्यालयाधिकारिणः अध्यापकं कट्वालोचयन्। अस्मिन् विद्यालये अध्यापकः भवति निषाद् मुहम्मद्। स स्वमेधया एव एनां प्रवृत्तिं कृतवान् न तु परप्रेरणया इति विद्यालयाधिकारिण‌ः वदन्ति।

विद्यालये शतप्रतिशतं विजयं प्रतीक्ष्य अन्यैरध्यापकैः समालोच्य एव एतां प्रवृत्तिं स अकरोदिति पूर्वं आरोपणमासीत्। तदेव अधुना अन्यैरध्यापकैः निरस्तम्। सम्भवेन सम्बग्धौ द्वौ छात्रौ आर्थिकपरतया पश्चात्पङ्क्तौ भवतः।

परीक्षायाम् अतिरिक्त मुख्याधिकारी आसीत् निषाद् मुहम्मद्। स दशवर्षाणि यावत् अस्मिन्नेव विद्यालये कर्म करोति। सम्भवेस्मिन् रक्षिदलान्वेषणं प्रचलदस्ति। अन्वेषणस्य भागत्वेन त्रयः अध्यापकाः विद्यालयात् तात्कालिकतया निष्कासिताः।