अध्यापकेन प्लस् टू परीक्षा लिखिता, अस्यां घटनायां निस्संगतया विद्यालयाधिकारिणः।

कोषिक्कोट् – मुक्कं नीलेश्वरं सर्वकारीय उच्चतरविद्यालये अध्यापकः छात्राणां कृते परीक्षामलिखत्। अस्यां घटनायां विद्यालयाधिकारिणः अध्यापकं कट्वालोचयन्। अस्मिन् विद्यालये अध्यापकः भवति निषाद् मुहम्मद्। स स्वमेधया एव एनां प्रवृत्तिं कृतवान् न तु परप्रेरणया इति विद्यालयाधिकारिण‌ः वदन्ति।

विद्यालये शतप्रतिशतं विजयं प्रतीक्ष्य अन्यैरध्यापकैः समालोच्य एव एतां प्रवृत्तिं स अकरोदिति पूर्वं आरोपणमासीत्। तदेव अधुना अन्यैरध्यापकैः निरस्तम्। सम्भवेन सम्बग्धौ द्वौ छात्रौ आर्थिकपरतया पश्चात्पङ्क्तौ भवतः।

परीक्षायाम् अतिरिक्त मुख्याधिकारी आसीत् निषाद् मुहम्मद्। स दशवर्षाणि यावत् अस्मिन्नेव विद्यालये कर्म करोति। सम्भवेस्मिन् रक्षिदलान्वेषणं प्रचलदस्ति। अन्वेषणस्य भागत्वेन त्रयः अध्यापकाः विद्यालयात् तात्कालिकतया निष्कासिताः।

One Response to अध्यापकेन प्लस् टू परीक्षा लिखिता, अस्यां घटनायां निस्संगतया विद्यालयाधिकारिणः।

  1. Deepthi.r.s says:

    अध्यापकस्य कर्म अध्यापनं न विजयशतमानं संवर्धनं विद्यालयाः वाणिज्यकेन्द्राः इति के चिन्तयन्ति ते एवं कुर्वन्ति गुरुः एवं चेत् छात्राणां कार्यं …

Leave a Reply

Your email address will not be published. Required fields are marked *