Monthly Archives: May 2019

एस्.एस्.एल्.सी. परीक्षाफलं प्रकाशितम्, ९८.११ शतमितं विजयः।

तिरुवनन्तपुरम्- अस्य वर्षस्य एस्.एस्.एल्.सी टि.एच्.एल्.सी. परीक्षाफलं प्रख्यापितम्। एस्.एस्.एल्.सी. परीक्षायां ९८.११ प्रतिशतं छात्राः उपरिपठनाय योग्याः अभवन्। ३७३४४ छात्राः सर्वेषु विषयेषु ए प्लस् श्रेणीं प्राप्ताः।
विजयशतमाने पत्तनंतिट्टा जिल्ला अग्रे सरति। तत्र परीक्षां लिखितेषु ९९.३३ शतमितं छात्राः विजयिनः अभवन्। वयनाट् जिल्ला विजयशतमाने पश्चात्तिष्ठति। तत्र ८३.२२ प्रतिशतं छात्राः एव विजयं प्राप्ताः। शिक्षा मण्डलेषु कुट्टनाट् शिक्षामण्डलम् अग्रे तिष्ठति।
मलप्पुरं जिल्लायां सर्वेषु विषयेषु ए प्लस् श्रेणीं लब्धाः छात्राः अधिकाः सन्ति।तत्र २९४३ छात्राः एवं सन्ति। राज्ये ५९९ सर्वकारीणविद्यालयाः ७१३ धनादत्त विद्यालयाः तथा ३९१ निजीयविद्यालयाश्च १०० प्रतिशतं विजयं प्राप्ताः।

गर्वनाशो भवेत् ध्रुवम् – 11-05-2019

 

नूतना समस्या –

“गर्वनाशो भवेत् ध्रुवम्”

ഒന്നാംസ്ഥാനം

നിർവ്വാചനേ സമാപ്തേ തു
ഫലപ്രഖ്യാപനേ കൃതേ
ദംഭാധിഷ്ഠിതനേതൃത്വ-
ഗർവ്വനാശോ ഭവേത് ധ്രുവം

Narayanan N.

“അഭിനന്ദനങ്ങള്‍”

 

एस्.एस्.एल्.सी. परीक्षाफलं श्वः प्रकाशयिष्यति।

तिरुवनन्तपुरम्- अस्य वर्षस्य एस्.एस्.एल्.सी. परीक्षाफलं श्वः प्रकाशयिष्यति। टी.एच्.एस्.एल्.सी.,ए.एच्.एस्.एल्.सी. परीक्षयोः फलप्रख्यापनमपि अनेन सहैव सम्पत्स्यते। ४३५१४२ छात्राः अस्मिन् वर्षे परीक्षामलिखन्। मध्याह्ने द्विवादने शिक्षामन्त्री रवीन्द्रनाथवर्यः फलप्रख्यापनं विधास्यति।

     एप्रिल् पञ्चमे दिने एव मूल्यनिर्णयं समारब्धम्। ५४ मूल्यनिर्णयकेन्द्रेषु घट्टत्रयोण मूल्यनिर्णयं प्रचलति स्म। एप्रल् २९ पर्यन्तं मूल्यनिर्णयमभवत्। पी.आर्.डी. लैव, कैट् संस्थायाः सफलं २०१९ इत्यादिषु मोबैल् आप् विद्यासु  तथा शिक्षाविभागस्य सर्वेषु जालपुटेषु च परीक्षाफलमुपलभ्यते।

S S L C RESULT ……..click here

PRASNOTHARAM – 11-05-2019

 

प्रश्नोत्तरम्।

 

 

 

  1. कृष्णस्य समीपम्। (क) कृष्णसमीपम्  (ख) सहकृष्णम् (ग) उपकृष्णम्
  2. ——— सङ्कल्पकम् ।(क) मनः (ख) हृदयः (ग) बुद्धिः
  3.  वायवः  ——। (क) पञ्च  (ख) चत्वारः  (ग) त्रीणि
  4. वेदाङ्गानि ——-। (क) पञ्च  (ख) षड्  (ग) सप्त
  5. रूपरहितस्पर्शवान् ——–।(क) जलम् (ख) आकाशः  (ग) वायुः
  6. ” मृच्छकटिकम्  ” इति नाटके नायकः कः? (क) चारुदत्तः  (ख) उदयनः (ग) चाणक्यः
  7. ” शरीरमाद्यं खलु धर्मसाधनम्  ” कस्मिन् काव्ये एवमुक्तम् ? (क) रघुवंशे (ख) किरातार्जुनीये (ग) कुमारसम्भवे
  8. बृहत्कथायाः प्रणेता कः ? (क) गुणाढ्यः (ख) सुबन्धुः  (ग) बाणभट्टः
  9. वैशेषिकदर्शनम् । (क) जैमिनिः  (ख) कणादः  (ग) कपिलः
  10. शकुन्तलायाः माता का ? (क) मेनका (ख) गौतमी (ग) पार्वती

ഈയാഴ്ചയിലെ വിജയി

Amrutha C J

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • Amrutha C J
  • Anumol C J
  • Adwaith C S
  • Sithara Alappuzha
  • Sreeja Mumbai
  • Adidev C S

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

आगोलभीकराणां पट्टिकायां मसूद् असर्, अमेरिकायाः नयतन्त्रविजयः इति मैक् पाम्पियो।

वाषिङ्टऩ्- मसूद् असर् इति भीकरः आगोलभीकरत्वेन घोषितः इत्येतत् अमेरिकायाः नयतन्त्रविजय एवेति अमेरिका राज्यसचिवः मैक् पोम्पियो वर्यः अवदत्। मसूद् असरः भीकरपट्टिकायां अन्तर्भावनीयः इति प्रमेयः चीनाराष्ट्रेण एतावत्पर्यन्तं नानुकूलितः आसीत्। आधिकारिकप्रमाणान् परीक्ष्य बोध्यमभवदित्यतःइतःपरं प्रत्याक्षेपो न भविता इति चीनराष्ट्रेण विज्ञप्तम्। अतः एव अधुना आगोलभीकरघोषणा जाता।
जैय्षे मुहम्मद् इति भीकरसंघस्य नेता मसूद् असर् विषये अनुयोगं कृतेभ्यः सर्वेभ्यो अभिनन्दनानी व्याहृत्य मैक् पोम्पियो वर्यः इदमप्यवदत् यत् चिरकालं यावत् प्रतिपाल्यमानः अयं विजयः अमेरिकानयतन्त्रस्य विजय एवेति। अन्ताराष्ट्रसमाजस्य विजयः तद्वत् पश्चिमेष्यायां शान्तेः पदविन्यासश्च इत्यपि स ट्विट्टर् मध्ये सूचयामास।