Daily Archives: December 4, 2018

पद्मप्रभापुरस्कारः कल्पट्ट नारायणन् वर्याय।

कल्पट्टा- ऐषमः पद्मप्रभापुरस्कारः कल्पट्ट नारायणन् वर्याय समर्प्यते। प्रसिद्धः कविः आख्यायिकाकारः निरूपकश्च भवति कल्पट्ट नारायणन्। ७५००० रूप्यकाणि पद्मरागखचितं फलकं प्रशस्तिपत्रं च पुरस्कारे अन्तर्भवन्ति।

     एं मुकुन्दन् वर्यस्य आध्यक्ष्ये  एं एन् कारश्शेरि सारा जोसफ् इत्येताभ्यम् अङ्गाभ्यां युक्ता समितिरेव एनं वर्यं पुरस्काराय अचिनोत् इति पद्मप्रभानिधेः अध्यक्षः एं.पी. वीरेन्द्रकुमार् वर्यः सूचितवान्। आधुनिक मलयालकवितायां नूतनसरणेः प्रयोक्ता भवति कल्पट्ट नारायणन् इति विधिनिर्णयसमितेः अभिप्रायः।

  बषीर् पुरस्कारः, डो. टी. भास्करन् नायर् पुरस्कारः, मस्कट् प्रवासि मलयालीपुरस्कारः, वी.टी. कुमारन् पुरस्कारश्च इतः पूर्वं अनेन प्राप्ताः।

 

विद्यालयीयकलोत्सवः आलप्पुषायाम्, सज्जीकरणानि पुरोगच्छन्ति।

आलप्पुषा- ५८ तमः केरल-विद्यालयीय-कलोत्सवः डिसम्बर् ७,८,९ दिनाङ्केषु आलप्पुषायां सम्पत्स्यते। उच्चतरविद्यालय-उच्चविद्यालयकलोत्सवौ  संस्कृतोत्सवः अरबी कलोत्सवश्च सम मेल भविष्यन्ति।  कलोत्सवार्थं सज्जीकरणानि  अन्तिमघट्टे जातानि। मत्सरार्थं २९ वेदिकाः सन्ति। आहत्य १२००० पस्पर्धयिषवः भवन्तीति प्रतीक्षते।

     मत्सरार्थं पञ्जीकरणं डिसम्बर् ६ दिनाङ्के प्रातः नववादने भविता। तदर्थं आलप्पुषा सनातनधर्मविद्यासंघस्य उच्चतर विद्या य १४ प्रकोष्ठाः सज्जीकृताः। मत्सरार्थिनां कृते  आवास व्यवस्था १२ विद्यालयेषु सज्जीकृता। पानीयं जलं प्रसाधनसौविध्यानि  च एषु विद्यालयेषु यथेच्छं स्थापयिष्यति।

     संस्कृतनाटकं दशम्यां वेदिकायां अन्ये  कार्यक्रमाः १६,१७,१८,२१ वेदिकायां च सम्पत्स्यन्ते। महाप्रलयानन्तरं सर्वेषु रङ्गेषु व्ययन्यूनीकरणंनिर्दिष्टमित्यनेन  अस्मिन् वर्षे  कलोत्सवं दिनत्रयेण समायोजयितुं निरणयत्। तद्वत् संस्कृतोत्सवेन समं आयोज्यमानं विचारसत्रं  पण्डितसमादरणं च अस्मिन् वर्षे  जहाति  स्म।