Daily Archives: December 10, 2018

विद्यालयीय कलोत्सवः- कलाकिरीटं पालक्काट् जनपदः स्वायत्तमकरोत्।

आलप्पुषा- ५९ तमः विद्यालयीय कलोत्सवः आलप्पुषा नगरे समाप्तिमाप। दिनत्रयेण समायोजिते अस्मिन् कलोत्सवे कलाकिरीटः पाालक्काट् जनपदेन स्वायत्तीकृतः। द्वादशवर्षाणि यावत् कोषिक्कोट् जनपदेन स्वायत्तीकृत आसीदयं किरीटः। आस्मिन् वर्षे केवलम् अङ्कत्रयम् अधिकं सम्पाद्य पालक्काट् नगरेण किरीटाधिकारः उपस्थापितः।

पालक्काट ९३० अङ्कान् अलभत। परं कोषिक्केट् ९२७ अङ्कैः द्वितीयस्थानमलभत। ९०३ अङ्कैः तृशूर् तृतीयस्थाने तिष्ठति।

आगामिनि वर्षे कलोत्सवः कासरगोड् नगरे आयोजयिष्यति। अस्मिन् वर्षे व्ययंं न्यूनीकर्तुं कलोत्सवोयं  दिनत्रयेण परिमितः आसीत्। साहित्यरचनामत्सराः नायोजिताः आसन्। आगमिनि वर्षे अपि एषा रीतिः भवति वा न वेति इतः पर्यन्तं न निश्चितम्।