Daily Archives: December 29, 2018

केरलस्थान् मत्स्यकर्मकरान् नोबल् पुरस्कारार्थं प्रस्तोष्यति।

केरलस्थान् मत्स्यकर्मकरान् नोबल् पुरस्कारार्थं प्रस्तोष्यति इति लोकसभासदस्यः शशी तरूर् वर्यः अवदत्। केरलेषु सञ्जाते महाप्रलये तैः कृतानि रक्षाप्रवर्तनानि संसूच्यैव प्रस्तुतिः भविता इति तेनेक्तम्। शान्तिभिभागे दीयमानाय पुरस्काराय बाह्यनामाङ्कनरूपेणैव प्रस्तावः भविष्यतीति सूचना।

२०१८ आगस्त् मासे सञ्जाते महाप्रलये तेषां सेवनं अतिमहत्तरमासीत्। सैन्येनापि अप्राप्यान् प्रदेशान् गत्वा सहस्राधिकान् जनान् सुरक्षितस्थानमनयन् ते। अतः केरलानां सैनिकाः इति मुख्यमन्त्री तान् विशिनष्टि स्म।