Daily Archives: December 15, 2018

नारायणीयं पुरस्कारं हरिप्रसाद् कटम्पूर् वर्याय समार्पयत्।

गुरुवायूर् – नारायणीयदिनमनुबन्ध्य पण्डितेभ्यो दीयमानाय नारायणीयपुरस्काराय अस्मिन् वर्षे हरिप्रसाद् कटम्पूर् इति पण्डितवर्यः अर्हो/भवत्। नारायणीये काव्यालङ्कारः इत्यस्मिन् विषये समर्पितः प्रबन्धः एव पुरस्काराय परिगणितः।

     नारायणीयदिनत्वेन आचरिते ह्यस्तने गुरुपवनपुरस्थे मेप्पत्तूर् सभागृहे आयोजिते समारोहे पुरस्कारः समर्पितः।मातृभूमी दिनपत्रिकायाः मुख्यसम्पादकः पुरस्कारं तस्मै समर्पितवान्। देवस्वं भारवाहिप्रभृतयो महात्मानः सन्न्हिताः आसन्। अष्टमवारम् अनुस्यूततया हरिप्रसादः एतस्मै पुरस्काराय अर्हः अभवत्।

अमिताव् घोष् वर्यः ज्ञानपीठेन पुरस्कृतः।

नवदिल्ली-  आङ्गलभाषायां प्रथमः ज्ञानपीठपुरस्कारः विख्यातेन साहित्यकारेण अमिताव् घोष् वर्येण स्वायत्तीकृतः। साहित्यक्षेत्रे उत्कृष्टयोगदानाय दीयमानः अयं पुरस्कारः प्रप्रथममेव भारतीय-आङ्गलसाहित्यकाराय दीयते।

     भूतं वर्तमानं च समायोजयति घोष् वर्यस्य रचना इति ५४ तमस्य ज्ञानपीठपुरस्कारस्य प्रख्यापनं विधास्यन्  पुरस्कारसमितिः अभिप्रैति स्म। इतिहासकारः सामाजिक-नरवंशशास्त्रज्ञश्च भवति अभिताव् घोष् वर्यः। तेषु विषयेषु तस्य अगाधं पाण्डित्यं तस्य कृतिषु प्रतिफलतीति समितिः प्रास्तावयत्। वंगदेशीयः भवत्ययं वर्यः।