Daily Archives: December 28, 2018

अमेरिक्का श्रेष्ठवनितापुरस्कारः मिषेल् ओबामा वर्यायै।

वाषिङ्टण्- अमेरिक्कीया श्रेष्ठवनिताचयने हिलारि क्लिन्टन् वर्यां पराजित्य मिषेल् ओबामा वर्या जिता। अमेरिक्कायाः भूतपूर्वः राष्ट्रपतिः बराक् ओबामावर्यस्य पत्नी भवति मिषेल्। गतेषु सप्तदशवर्षेषु अयं पुरस्कारः हिलारि क्लिन्टन् वर्यया स्वायत्तीकृतः आसीत्।

     अस्मिन् वर्षे हिलारी क्लिन्टन् तृतीयस्थानमागता। भूतपूर्वा राज्यसचिवा तथा तत्कालीनराष्टंरपतेः बिल् क्लिन्टन् वर्य़स्य पत्नी च भवति हिलारी क्लिन्टन्। टोक् षो द्वारा प्रसिद्धा ओप्रा विन्फ्रा एव द्वितीया।

     ग्यालप् नामकसंघेन कृतं वार्षिकं सार्वजनीनाभिप्रायसमाकलने एवेदम् अङ्कितम्। १९४६ प्रभृति ग्यालप् इदम समाकलनं सञ्चालयति।

     भूतपूर्वः राष्ट्रपतिः बराक् ओबामा एव श्रेष्ठपनरुषत्वेन चितः। डोनाल्ड् ट्रम्प् वर्यः द्वितीयस्थाने अस्ति। गतेषु ११ वर्षेषु बराक् ओबामा एव प्रथमस्थाने वर्तते।

मुम्बय्यां अग्निबाधा – पञ्च वयोधिकाः मृताः।

मूम्बै – तिलकनगरस्थे कस्मिंश्चिदावासनिलये पञ्चदशदिलयात्मके दुराबाधिते सविधे उषितानां वयोधिकानां मृतौ नगरस्थाः स्तब्धाः। मृतेषु एकपुरुषः, अन्याः वनिताः च भवन्ति। गुरुवासरे सायं अष्टवादने अग्निबाधा विदिता आग्नेयारक्षिदलाः आगत्य सुरक्षाकार्यक्रमान् स्वीकृतवन्तः। अग्निबाधायाः निदानं किमिति न को∫पि जानन्ति।