Daily Archives: December 18, 2018

शबरिमला सन्निधाने भक्तजनानां महान् सम्मर्दः अनुभूयते।

पम्पा -मण्डलकालतीर्थाटनस्य अन्तिमे घट्टे समायाते शबरिमला सन्निधाने भक्तजनानां महान् सम्मर्दः अनुभूयते। ह्यस्तने ७३००० तीर्थाटकाः पम्पामार्गं सन्निधानं सम्प्राप्ताः इत्यावेद्यते। भक्तानां नियन्त्रणेेषु यद्यपि शैथिल्यं कृतं तथापि निरोधादेशस्य प्रत्यावर्तनसाहचर्यम् अधुना नास्तीति रक्षिदलस्य विश्वासः। अस्मिन् तीर्थाटनकाले शनिवासरे एव सन्निधाने महान् सम्मर्दः अनुभूतः। तदा ८०००० जनाः पम्पामार्गं सन्निधानं समगच्छन्।
मण्डलकालपरिसमाप्तेः दशदिनानि अवशिष्यते। अतः सम्मर्दः अधिकं स्यादिति प्रतीक्षा अस्ति। राज्यान्तरतीर्थाटकाः अपि बहवः आगच्छेयुः।