Daily Archives: December 23, 2018

सृष्टं वा नवकेरलम् – 29-12-2018

 

नूतना समस्या –

“सृष्टं वा नवकेरलम्”

ഒന്നാംസ്ഥാനം

പുഷ്ടം രാഷ്ട്രീയവൈരാഗ്യം
ദൃഷ്‌ടമാചാരലംഘനം
നഷ്ടം വിശ്വാസമൈക്യം ച
സൃഷ്ടം വാ നവകേരളം.

Narayanan N

“അഭിനന്ദനങ്ങള്‍”

 

PRASNOTHARAM 29-12-2018

 

प्रश्नोत्तरम्।

 

 

 

 

  1. रामायणे कति काण्डानि सन्ति ?(क) ७  (ख) ८ (ग) ६
  2. कति पुराणानि सन्ति ? (क) १६ (ख) १७ (ग) १८
  3. नाट्यशास्त्रस्य कर्ता कः ? (क) पाणिनिः (ख) भरतमुनिः (ग) पतञ्जलिः
  4. मीमांसादर्शनस्य उपज्ञाता कः ? (क) जैमिनिः (ख) बादरायणः (ग) कपिलः
  5. नौकागानकर्ता कः ? (क) उण्णायिवारियर् (ख) रामपुरत्तुवारियर् (ग)कुञ्चन् नम्प्यार्
  6. कल्हणस्य ऐतिहासिकग्रन्थः कः ? (क) राजरङ्गिणि (ख) कादम्बरी (ग) उत्तररामचरितम्
  7. हितोपदेशस्य कर्ता कः ? (क) विष्णुशर्मा (ख) गुणाड्यः (ग) सोमदेवः
  8. भासनाटकचक्रे कति रूपकाणि सन्ति ? (क) १२ (ख) १३ (ग) १४
  9. सङ्गीतप्रधानः वेदः कः ?  (क) ऋग्वेदः (ख)यजुर्वेदः (ग) सामवेदः
  10. प्रस्थानत्रयस्य भाष्यकारः कः ?  (क) श्रीशङ्कराचार्यः (ख) श्रीनारायणगुरुः (ग) चट्टम्पिस्वामी

ഈയാഴ്ചയിലെ വിജയി

YADUSREE

“അഭിനന്ദനങ്ങള്‍”

9 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • Yadusree
  • Adidev C S
  • Akshay P C
  • Dawn Jose
  • Adwaith C S

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

संगमग्राममाधवगणितकेन्द्रम् इरिङ्ङालक्कुटा।

इरिङ्ङालक्कुटा – यूरोपे आधुनिकगणितस्य उदयात् पूर्वं शतकेभ्यः प्रागेव आधुनिकगणिताशयानाम् आधारमधिकृत्य चिन्तितवान् गणित-ज्योतिशास्त्रप्रतिभाधनः आसीत् संगमग्राममाधवः इति विख्यातः इरिङ्गाटप्पल्ली माधवन् नम्पूतिरिः।

तृशूर् जनपदे इरिङ्ङालक्कुटासमीपे कल्लेट्टिन्करा प्रदेशस्थे इरिङ्ङाटप्पल्लिमनागृहे एव स जनिमलभत इति इतिहासपण्डितानामभइप्रायः। वटश्शेरि परमेश्वरादारभ्य कटत्तनाट् राजा शङ्करवर्मा महाशयपर्यन्ता ४०० वर्षीया केरलीयगणितशास्त्रसरणिः प्रसिद्धा एव। तस्याः सरणेः उपज्ञाता भवति संगमग्राममाधवः। स गोलवित् इति नाम्ना अपि व्यवह्रियते स्म।

माधवाचार्यस्य नाम्नि २०११ वर्षात् प्रभृति इरिङ्ङालक्कुटायां प्रवर्तितं गणितगवेषणकेन्द्रं भवति संगमग्राममाधवगणितकेन्द्रम्। भारतीयगणितपरम्परां गणितशास्त्रज्ञान् विशिष्य केरलसरणिं चाधिकृत्य नवसन्तानेभ्य परिचायनमेव केन्द्रस्यास्य मुख्यमुद्देश्यम्।

केन्द्रस्यास्य आभिमुख्ये –

  • भारतीयगणितसमारोहः
  • वेदगणितशिल्पशाला
  • माधवगणितपुरस्कारदानम्
  • युगणितप्रतिभासंगमः
  • गणितोत्सवः
  • गणिततीर्थयात्रा
  • गणितशास्त्रदिनाचरणम्

इत्यादयः कार्यक्रमाः आयोज्यन्ते।