Monthly Archives: November 2018

PRASNOTHARAM – 24-11-2018

 

प्रश्नोत्तरम्।

 

 

 

  1. नलचरितम् आट्टक्कथायाः रचयिता कः ? (क) वल्लत्तोल् (ख) कुञ्चन् नम्प्यार्  (ग) उण्णायि वारियर्
  2. भारतस्य ” राष्ट्रियपशुः ” कः ?  (क) व्याघ्रः (ख) सिंहः (ग) गजः
  3. महाभारतस्य पदानुपदं विवर्तनं कैरल्यां कः अकरोत् ? (क) ए आर् राजराजवर्मा (ख) वल्लत्तोल्  (ग) कुञ्जिक्कुट्टन् तम्पुरान्
  4. भारत भरणघटनायाः शिल्पिः कः ?  (क) डाः अम्बेद्करः (ख) जवहर्लाल् नेहरु (ग) महात्मा गान्धिः
  5. प्रथम संस्क़ृत चलनचित्रं  किम् ?  (क) प्रियमानसम् (ख) श्रीशङ्कराचार्यः (ग) अन्नदाता
  6. संस्कृतभाषायां कति विभक्तयः सन्ति ?  (क) ६  (ख) ७  (ग) ८
  7. ओस्कार् इति प्रसिद्धः पुरस्कारः किमधिकृत्य भवति ? (क) नाटकम् (ख) चलनचित्रम् (ग) कूटियाट्टम्
  8. गर्भश्रीमान् ” इति प्रसिद्धः कः  ?  (क) स्वाति तिरुन्नाळ् (ख) उत्राटं तिरुन्नाळ् (ग) विशाखं तिरुन्नाळ्
  9. अमरकोशस्य रचयिता  कः  ?  (क) कालिदासः (ख) अमरसिंहः (ग) पाणिनिः
  10. केरळा साहित्य अक्कादम्याः आस्थानं कुत्र वर्तते  ? (क) तिरुवनन्तपुरम् (ख) कोट्टयम् (ग) तृश्शिवपेरूर्

ഈയാഴ്ചയിലെ വിജയി

Lijina Babu

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • Lijina Babu
  • Krishnapriya. B
  • Ramachandran B
  • Dawn Jose
  • Adidev C S

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

तमिल् नाटु राज्ये नाशं वितीर्य गज चक्रवातः. अर्धलक्षाधिकान् जनान् परिवर्त्य आवासयत्।

चेन्नै- तमिल् नाटु राज्ये नागपट्टणं, कटलूर्, रामनाथपुरं तथा पुतुच्चेरिस्थे कारक्कल् प्रभृतिषु स्थलेषु नाशं वितीर्य गज इति चक्रवातः तीरमागतः। प्रतिहोरं ११० कि.मी. वेगे वीजिते वाते सहस्रपरिमितानां प्रासादानां हानिः संजाता। वृक्षाः उन्मूल्य पतिताः। चेन्नै प्रभृतिषु स्थलेषु महावृष्टिरपि सञ्जाता।

     तमिल् नाटु-केरल सीमाप्रान्तेषु शुक्रवासरे अपि घोरा वृष्टिः भविता इति वातावरणविभागस्य सूचना।

     पञ्चदिनात् पूर्वं वंगसमुद्रे चेन्नैतः ९२५ कि.मी. दूरे गज चक्रवातः समापन्नः। तमिल् नाटुस्थे कटलूर् तथा आन्ध्रथे श्रीहरिक्कोट्टा स्थलस्य च मध्ये चक्रवातः भविष्यति इत्यासीत् पूर्वप्रवचनम्। ततः वातस्य गतिः परिवृत्य नागपट्टणं कटलूर् तीरं प्रति प्रस्थितः। बस्-रेल् यानानि सेवनम् स्थगितानि।

     चक्रवातदुरितमालक्ष्य बहुषु प्रान्तेषु विद्यालयानां विरामः घोषितः। तथा विश्वविद्यालयानां परीक्षा परिवर्तिता च।

२५ वर्षाभ्यन्तरे मानवः कुजग्रहं प्राप्स्यति, नासा संस्थायाः द्रढीकरणम्।

वाषिङ् टण्- आगामिनि २५ वर्षाभ्यन्तरे मानवं कुजग्रहं प्रति प्रेषितुं परियोजनया सह अमेरिका शून्याकाशसंस्था नासा आगता। एतदर्थं परीक्षणानि आरब्धानि इति नासावृत्तम् असूचयत्।

     एतत् बृहत्तमं दौत्यं भवति। न केवलम् आर्थिकव्ययम् अपितु साङ्केतिकम् अग्रेसरत्वमपि आवश्यकम्। कुजस्य अन्तरिक्षेण सह समीकरणं महान् प्रयास एव। २५ वर्षाभ्यन्तरे सर्वं साध्यं भविष्यति इति नासायाः वृत्तिविरतः वैमानिकः टों जोण्स् प्रत्याशां प्राकटयत्।

     एतगर्थं ७१६० कोटि रूप्यकाणां व्य.म् आवश्यकं, तथापि अवरतः नव वर्षाणि अस्य प्रवर्तनाय आवश्यकानि इत्यपि स अवोचत्।

केरलपुनर्निर्मितिः, ऐक्यराष्ट्रसभानिर्देशम् उपदेशकसमितिः अङ्गीचकार।

तिरुवनन्तपुरम्- प्रलयानन्तरं केरलस्य पुनर्निर्माणविषये ऐक्यराष्टट्रसभायाः निर्देशान् तदर्थं रूपवत्कृता उपदेशकसमितिः अङ्गीचकार। आवेदनं समग्रं तथा सर्वप्रान्तस्पर्शनं चेति समित्यङ्गानामभिप्रायः। नदीसंसक्षणार्थं केरला रिवर् बेसिन् अथोरिट्टी अत्यावश्यकम् इत्यपि अधिवेशने अभिप्रायः समायातः।

     कुट्टनाट् प्रदेशे जनानां जीवनं कार्षिकवृत्तिश्च कथं संरक्षणीयं इति विषये आसूत्रणसमितिः पठनं करिष्यति। जलविभवविभागस्य सहकरणेन भवेत् इदं पठनम्।

     उपदेशकसमितेः द्वितीयम् अघिवेशनमेव ह्यस्तने आयोदितम्। अङ्गानां निर्देशान् समग्रतया अवधार्य आवेदनमायोजयितुं निरणयत्। मुख्यमन्त्री पिणराय् विजयन् वर्यः अध्यक्ष‌ आसीत्।

देवताभिर्न रक्ष्यते – 17-11-2018

 

नूतना समस्या –

“देवताभिर्न रक्ष्यते”

ഒന്നാംസ്ഥാനം

शीलं प्रधानं पुरुषे
शीलमेव परं धनम्।
मनुजैः परिपाल्यं तत्
देवताभिर्न रक्ष्यते।।

Narayanan Namboothiri

“അഭിനന്ദനങ്ങള്‍”

रोष्नी पद्धतिः राष्ट्रे आदर्शभूता,- मुख्यमन्त्री।

कोच्ची- राज्यान्तरेभ्यः वृत्यर्थं केरलमागतानां कर्मकराणाम् अपत्यानि केरलीयविद्यालयेषु पठन्ति। तेषां पठनगतेः समीकरणाय आसूत्रिता रोष्नी इति पद्धतिः आदर्शपद्धतिर्भवतीति मुख्यमन्त्री पिणरायि विजयन् वर्यः अब्रवीत्।

     पद्धतेः जालपुटस्य उद्घाटनं, समीक्षा इति मलयालभाषापरिज्ञानरेखायाः उद्घाटनं च विधास्यन् भाषमाण आसीत् सः।

     विश्वस्य यस्मिन् कस्मिंश्चित् कोणो स्थित्वा अपि जीवनोपाधेः स्वयमार्जनाय केरलीयाः प्रभवन्ति। अतः वृत्यर्थम् अत्रागतानाम् अतिथिकर्मकराणां विकारसमस्यादीन् स्वयमेवावगन्तुं ते समर्थाः इत्यपि स असूचयत्।

     अतिथिकर्मकराणां कृते सर्वान् अधिकारान् देशभाषाभेदं विना वयं दद्मः, तादृशं राज्यं भवति केरलम् इत्यपि अनेन सूचितम्।

PRASNOTHARAM – 17-11-2018

 

प्रश्नोत्तरम्।

 

 

 

  1. मीनाः  ——– तरन्ति । (क) नद्याः (ख) नदी (ग) नद्याम्
  2. छात्राः ——— वसन्ति । (क) छात्रावासः (ख) छात्रावासस्य (ग) छात्रावासे
  3. कथा ——— अस्ति । (क) पुस्तकम् (ख) पुस्तके (ग) पुस्तकानि
  4. वानराः ——— उपविशन्ति । (क) शाखासु (ख) शाखाः (ग) शाखाभ्यः
  5. महाराजः  ———- उपविशति । (क) सिंहासनम् (ख) सिंहासनस्य (ग) सिंहासने
  6. परश्वः एताः बालिकाः दिल्लीं  ——–। (क) गमिष्यामः (ख) गमिष्यन्ति (ग) गमिष्यति
  7. वसन्ते मयूराः  ———। (क) नर्तिष्यति (ख) नर्तिष्यथ (ग) नर्तिष्यन्ति
  8. यूयं श्लोकं  ——– । (क) वदिष्यथ (ख) वदिष्यामः (ग)  वदिष्यन्ति  
  9. वयम्  उत्तराणि ———-। (क) लेखिष्यावः (ख) लेखिष्यामः (ग) लेखिष्यथ
  10. अहम् अग्रिमवर्षे विश्वविद्यलये ————। (क) पठिष्यति  (ख) पठिष्यसि (ग) पठिष्यामि

ഈയാഴ്ചയിലെ വിജയി

KRISHNAPRIYA

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • Krishnapriya
  • Dawn Jose
  • Adidev C S
  • Parvani S Nair
  • Devananda S
  • Adwaith C S
  • Mariya K W
  • Avani I K

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

वयलार् पुरस्कारविजेतारं के.वी. मोहन् कुमार् वर्यम् अभ्यनन्दयत्।

तिरुवनन्तपुरम्- सार्वजनीनशिक्षाविभागस्य अधीनतायां स्थिताः विविघाः संस्था‌ एकीभूय आयोजिते अधिवेशने शिक्षा निदेशकः के.वी. मोहन् कुमार् वर्यः अभिनन्दितः। अस्य वर्षस्य वयलार् साहित्य पुरस्कारेण आदृतः आसीत् एषः वर्यः।

     एस.सी.इ.आर्.टी. संस्थायाम् आयोजिते समारोहे शिक्षामन्त्री प्रोफ. रवीन्द्रनाथ् वर्य़ः एनं बह्वमन्यत। जे. प्रसाद् वर्यः स्वागतभाषणमकरोत्। उच्चतरशिक्षा निदेशकः, सीमाट् निदेशकः, कैट् संस्था निदेशकः प्रभृतयः आशंसामर्पयामासुः।

शास्त्ररंगम् इति शास्त्रीयां शिक्षारीतिं प्रचालयिष्यति- शिक्षामन्त्री।

तिरुवनन्तपुरम्- शास्त्रीयशिक्षारीतिः इति विख्यातां शास्त्ररंगं पद्धतिं प्रचालयिष्यतीति शिक्षामन्त्री प्रोफ. सी. रवीन्द्रनाथ् वर्यः अवदत्। छात्राणां नैपुण्यं प्रत्यभिज्ञाय तेषां परिपालनमेव एषा रीतिः।  मनसः अऩ्धविश्वासान् दूरीकृत्य छात्रान् शास्त्रपटून् कुर्यात्।

     छात्राणां चोद्यानि समाधायैव शास्त्ररंगं पुरोगमिष्यति। सार्वजनीन-शिक्षा-संरक्षणयज्ञस्य भागत्वेन आसूत्रिता मुख्या पद्धतिरेषा। छात्राणां सर्गशेषिं प्रत्यभिज्ञाय तेषां नैपुण्यानुसारं संवर्धनमेव यथार्था शिक्षा।

     परन्तु अद्य छात्राणाम् इच्छां विगणय्य मातापितृणां आग्रहानुसारमेव शिक्षां प्रचलति। तामरक्कुलं उच्चतर विद्यीलये शास्त्ररंगं कार्यक्रमस्य उद्घाटनं विधास्यन् भाषमाण आसीत् मन्त्रिवर्यः।

 

वायुमलिनीकरणं, कृतकवृष्टिवर्षापणार्थं केन्द्रीय मलिनीकरण-नियन्त्रणमण्डलम्।

नवदिल्ली- वायुमलिनीकरणस्य क्रमातीतायां वर्धनायां केन्द्रीय-मलिनीकरम-नियन्त्रण मण्डलम् इति संस्था कृतकवृष्टिं वर्षापयितुं प्रयत्नमारभत। एतत् दीपावली समारोहानन्तरं कर्तुं निरचिनोत्। वर्षापातेन अन्तरिक्षे मलिनीकरणं न्यूनं भवेत् इति  अस्याः संस्थायाः प्रतीक्षा।

     राष्ट्रे सर्वाधिकं मलिनीकरणं दिल्लीनगरे एवास्ति। गते दिने अतितरां वायुमलिनीकरणस्थितिं तत्रैव  रेखाङ्कितं वर्तते। दीपावलीसमारोहानन्तरं अस्य स्थितिः एतस्मादपि उच्चश्रेणीं प्राप्स्यति। अस्मिन् साहचर्ये एव अन्तरिक्षे मालिन्यस्य परिमाणन्यूनीकरणार्थं कृतकवृष्टिवर्षापणार्थं संस्था यतते।

     क्लौड् सीडिंग्  इति तान्त्रिकविद्यया एव कृतकवर्षापणं भविता। सिल्वर् अयोडैय्ड्, शुष्कहिमं, लवणम् इत्यादीनि रासपदार्थानि मेघोपरि विकीर्य तेषां भारं वर्धापयित्वा वर्षापणमेव एषा रीतिः।