Daily Archives: November 29, 2018

हैसिस् नामकः भौमनिरीक्षणोपग्रहः अद्य भ्रमणपथं प्राप्स्यति।

चेेन्नै – अतिनूतनं भौमनिरीक्षणोपग्रहं हैसिस्आख्यं भारतम् अद्य भ्रमणपथं प्रापयति। श्रीहरिक्कोट्टातः भवति अस्य विक्षेपणम्। तत्र सतीष् धवान् शून्याकाशकेन्द्रात् प्रातः ९.५७ वादने विक्षेपणं निश्चितमस्ति। भारतीय-शून्याकाश-पर्यवेक्षणसंघः (ISRO) तद्देशीयत्वेन रूपकल्पितः भवति अयमुपग्रहः।

     पी.एस्.एल्.वी. सी.४३ एव हैसिस् उपग्रहं भ्रमणपथं प्रापयति। हैसिस् अतिरिच्य अमेरिक्काप्रभृतीनां राष्ट्राणां ३० लघूपग्रहान् अपि पी.एस्. एल्. वी. सी.४३ विक्षेपणं करिष्यति।

     भौमोपपितलस्य अतिसमीपनिरीक्षणमेव हैसिस् विक्षेपणेन लक्ष्यीक्रियते। अस्य भारः ३८० किलो परिमितः भवति।