Daily Archives: November 11, 2018
देवताभिर्न रक्ष्यते – 17-11-2018
नूतना समस्या –
“देवताभिर्न रक्ष्यते”
ഒന്നാംസ്ഥാനം
शीलं प्रधानं पुरुषे
शीलमेव परं धनम्।
मनुजैः परिपाल्यं तत्
देवताभिर्न रक्ष्यते।।
Narayanan Namboothiri
“അഭിനന്ദനങ്ങള്”
रोष्नी पद्धतिः राष्ट्रे आदर्शभूता,- मुख्यमन्त्री।
कोच्ची- राज्यान्तरेभ्यः वृत्यर्थं केरलमागतानां कर्मकराणाम् अपत्यानि केरलीयविद्यालयेषु पठन्ति। तेषां पठनगतेः समीकरणाय आसूत्रिता रोष्नी इति पद्धतिः आदर्शपद्धतिर्भवतीति मुख्यमन्त्री पिणरायि विजयन् वर्यः अब्रवीत्।
पद्धतेः जालपुटस्य उद्घाटनं, समीक्षा इति मलयालभाषापरिज्ञानरेखायाः उद्घाटनं च विधास्यन् भाषमाण आसीत् सः।
विश्वस्य यस्मिन् कस्मिंश्चित् कोणो स्थित्वा अपि जीवनोपाधेः स्वयमार्जनाय केरलीयाः प्रभवन्ति। अतः वृत्यर्थम् अत्रागतानाम् अतिथिकर्मकराणां विकारसमस्यादीन् स्वयमेवावगन्तुं ते समर्थाः इत्यपि स असूचयत्।
अतिथिकर्मकराणां कृते सर्वान् अधिकारान् देशभाषाभेदं विना वयं दद्मः, तादृशं राज्यं भवति केरलम् इत्यपि अनेन सूचितम्।
PRASNOTHARAM – 17-11-2018
प्रश्नोत्तरम्।
- मीनाः ——– तरन्ति । (क) नद्याः (ख) नदी (ग) नद्याम्
- छात्राः ——— वसन्ति । (क) छात्रावासः (ख) छात्रावासस्य (ग) छात्रावासे
- कथा ——— अस्ति । (क) पुस्तकम् (ख) पुस्तके (ग) पुस्तकानि
- वानराः ——— उपविशन्ति । (क) शाखासु (ख) शाखाः (ग) शाखाभ्यः
- महाराजः ———- उपविशति । (क) सिंहासनम् (ख) सिंहासनस्य (ग) सिंहासने
- परश्वः एताः बालिकाः दिल्लीं ——–। (क) गमिष्यामः (ख) गमिष्यन्ति (ग) गमिष्यति
- वसन्ते मयूराः ———। (क) नर्तिष्यति (ख) नर्तिष्यथ (ग) नर्तिष्यन्ति
- यूयं श्लोकं ——– । (क) वदिष्यथ (ख) वदिष्यामः (ग) वदिष्यन्ति
- वयम् उत्तराणि ———-। (क) लेखिष्यावः (ख) लेखिष्यामः (ग) लेखिष्यथ
- अहम् अग्रिमवर्षे विश्वविद्यलये ————। (क) पठिष्यति (ख) पठिष्यसि (ग) पठिष्यामि
ഈയാഴ്ചയിലെ വിജയി
KRISHNAPRIYA
“അഭിനന്ദനങ്ങള്”
10 ശരിയുത്തരങ്ങള് അയച്ചവര്
- Krishnapriya
- Dawn Jose
- Adidev C S
- Parvani S Nair
- Devananda S
- Adwaith C S
- Mariya K W
- Avani I K
“പങ്കെടുത്തവര്ക്കെല്ലാം അഭിനന്ദനങ്ങള്”












