Monthly Archives: November 2018

सिख् धर्मविकारः व्रणीकृतः, सीरो चलचित्रं विरुध्य व्यवहारः।

मुम्बै- षा रू खान् वर्यस्य नूतनचलचित्रं सीरो इत्यस्य प्रचारणचित्रे धर्मविकारः व्रणीकृतः इत्याक्षेपमुन्नीय न्यायालये व्यवहारः। षा रू खान् इति नटं , चलचित्रस्य भूमिकाप्रवर्तकान् च विरुध्यैव व्यवहारः। अकाली दलस्य दिल्ली सदस्यः मजीन्दर् सिंह् सिर्सा वर्यः एव न्यायालये व्यवहारं दत्तवान्। सिख् धर्मस्य आक्षेपयुक्तं कार्यं चलचित्रे अस्तीति स वदति। सिख् धर्मानुयायिभिः उपयुज्यमानः कक्कार् इति आयुधं तेषाम् अवहेलनरूपेण वज्ञापनपत्रे प्रादर्शयत् इति तद्धर्मानुयायिनामारोपः।

सिख् धर्मानुयायिभिः बहुमानरूपेण पश्यमानं तम् आयुधं साधारणरूपेण विज्ञप्तिपत्रे प्रादर्शयत्। एषा प्रवृत्तिः असमीचीना इति मजीन्दर् सिंह् वर्यः वदति स्म।

स्त्रीषु नवोत्थानं न संजातं, केवलं परिष्कार एव सञ्जातः – सारा जोसफ्।

तृशूर् – केरलेषु स्त्रीणां मध्ये नवोत्थानं नाभवत्, केचन परिष्कारा एव केवलं संजात इति विख्याता साहित्यनेत्री सारा जोसफ् वर्या अवदत्। २० तमे दिनाङ्के तृशूर् नगरे सम्पत्स्यमानस्य समत्वसंगमस्य भागत्वेन आमुखभाषणं कुर्वन्ती आसीत् सा।
आद्यकाले नवोत्थानप्रस्थानानि लिङ्गनीतिविषये सामञ्जस्यं स्वीकृतवन्ति। चान्नार् समरादिषु लिङ्गनीति सम्बन्धः आशयः आसीत्। तथापि स आशय़ः पश्चात् उपेक्षितः।
अनन्तरं वामपक्षमन्तर्भूय सर्वे संघटनाः मतदानस्य कृते एव स्त्रीन् गणयामासु। १९८० वर्षात् पश्चादेव स्त्रीविमोचनप्रस्थानानि आविर्भूतानि। अधुनापि पुरुषाधिपत्यम् अन्तरीकृत्यैव शबरिमलादिषु विषयेषु स्त्रीणां प्रवृत्तिः इत्यपि सा अवादीत्।

PRASNOTHARAM – 10-11-2018

 

प्रश्नोत्तरम्।

 

 

 

 

  1. २०१८ तम वर्षस्य एऴुत्तच्छन् पुरस्कारं कः प्राप्तवान् ? (क)एम् टी वासुदेवन् नायर् (ख) सी राधाकृष् सी राधाकृष्णः (ग) एम् मुकुन्दः
  2. केरलसर्वकलाशालायाः प्रथमः ओ ऎन् वी साहित्यपुरस्कारं कः प्राप्तवान् ? (क)सुगतकुमारी (ख) सी राधाकृष्णः (ग) एम् मुकुन्दः
  3. अधुना विश्वे बृहत्तमा प्रतिमा का ? (क) बुद्धप्रतिमा (ख) स्टाच्यू ओफ् लिबर्टी (ग) सर्दार् वल्लभायि पट्टेल् प्रतिमा
  4. पण्डितः ——– रचनां करोति ? (क) ग्रन्थानाम् (ख) ग्रन्थः (ग) ग्रन्थाः
  5. संस्कृतभाषा ———– जननी।(क)भारतीयभाषासु (ख)भारतीयभाषाणाम् (ग) भारतीयभाषायै
  6. सा ——–मेलनार्थम् अगच्छत् । (क)सखीभिः(ख)सख्युः (ग) सखीनाम्
  7. भवती ———- प्रक्षालनं करोतु। (क)पात्राणाम् (ख) पात्राणि (ग) पात्रेषु
  8. बृहस्पतिः ———गुरुः।(क) देवाः (ख) देवानाम् (ग) देवेषु
  9. भवान् ——— वचनम् अनुसरतु। (क) ज्येष्ठानाम् (ख) ज्येष्ठाः (ग) ज्येष्ठेषु
  10. जनाः ———पठनं कुर्वन्ति। (क) पत्रिकाः (ख) पत्रिकासु (ग) पत्रिकाणाम्

ഈയാഴ്ചയിലെ വിജയി

Elizabath James

“അഭിനന്ദനങ്ങള്‍”

7 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • Elizabath James
  • Adithya P R
  • Mariya K W
  • Adwaith C S
  •  Adidev C S
  • Dawn Jose
  • Maya P R

“പങ്കെടുത്ത എല്ലാവര്‍ക്കും അഭിനന്ദനങ്ങള്‍”

सर्वान् रक्षति संस्कृतम्- 10-11-2018

 

नूतना समस्या –

“सर्वान् रक्षति संस्कृतम्”

ഒന്നാംസ്ഥാനം

मन्त्रिवर्यान् तथा श्रेष्ठ-
तन्त्रिमुख्यान् च सर्वदा।
शास्त्रतत्वप्रदानेन
सर्वान् रक्षति संस्कृतम्।।

Anil Thekkumpuram

“അഭിനന്ദനങ്ങള്‍”

धर्मनिरपेक्षताभञ्जनार्थम् उद्यमः राज्याय कष्टतरः मुख्यमन्त्री।

कण्णूर – धर्मनिरपेक्षतां नाशयितुं केषाञ्चन परिश्रमः राज्यम् आपदि नेषेयतीति मुख्यमन्त्री पिणरायि विजयन् महाशयः अवदत्। ते धर्मनिरपेक्षतामेव अापदं पश्यन्ति, अत एव ते धर्मनिरपेक्षताभञ्जनम् इच्छन्ति। एतत् अतीव गौरवरूपेण पश्यामः इति स सूचितवान्। रक्षिदलम् आक्रम्य निरवीर्यं कर्तुं ते परिश्रमं कुर्वन्ति। एषा अवस्था प्रजातन्त्रसमाजेन  एकीभूय प्रतिरोद्धव्या। जाति-धर्मरूपेण रक्षिदलस्य वृत्तयः ते निरीक्षन्ते। परं रक्षिदलस्य एका जातिः एकैव धर्मः स रक्षिदलमेव  इत्यपि स असूचयत्।  धर्मनिरपेक्षतायै रक्षिदलस्य परिश्रमः श्लाघनीय इत्यपि मुख्यमन्त्री अवदत्।

अद्य केरलराज्यस्य जन्मदिनम्।

केरलराज्यं रूपवत्कृतं नवम्बर् १ दिनाङ्कः केरलजन्मदिनत्वेनाचर्यते। १९५७ तमे वर्षे भारतं ब्रिट्टन् शासनात् मुक्तमभवत्। ततः आरभ्य ऐक्यकेरलार्थं प्रक्षोभाः शक्तमभवन्। १९५६ तमे वर्षे राज्यपुन‌ःसंघटनानियमम् अनुसृत्यैव केरलं इतराणि राज्यानि च रूपवत्कृतानि। भाषायाः आधारेणैव एषा पुनःसंघटना जाता। तिरुवितांकूर् कोच्ची राज्यानि मद्रास् प्रविश्यायाः भागभूतः मलबार् प्रदेशः एवं मलयालं मुख्यभाषारूपेण स्वीकृतान् प्रदेशान् संयोज्य १९५६ नवम्बर् प्रथमे दिने केरलराज्य रूपवदकरोत्।

केरलराज्ये रूपीकृते भारतस्य १४ राज्येषु लघुतमं राज्यमासीत् केरलम्। केवलं ५ पञ्च मण्डलान्येव अस्मिन्नासीत्। तथापि शिॆक्षाक्षेत्रे अग्रेसरमासीत् केरलराज्यम्।
फसल् अलि वर्यस्य नेतृत्वे सर्दार् के.एं. पणिक्कर्, हृदयनाथ कुण्ड्रु एतौ अङ्गत्वेन च पुनःसंघटना आयोगः रूपवत्कृत आसीत् १९५३ तमे वर्षे। १९५५ तमे वर्षे आयोगस्य आवेदनं समर्पितम्। तस्मिन् केरलराज्य-रूपवत्करणार्थं निदेशमासीत्।

नवम्बर् प्रथमे दिने श्री चित्तिरतिरुनाल् महाराजः तिरुक्कोच्चि राजप्रमुखस्थानात् विरराम। राजप्रमुखस्य स्थाने बी. रामकृष्णरावु प्रथमः राज्यपालो बभूव। प्रथमं निर्वाचनं १९५७ फिब्रुवरी २७ दिनाङ्के संजातम्।